SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वतथागताधिष्ठान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शनव्यूहम् वाचये न पूजये न संप्रकाशये न मनसिकुर्या स माम् अपराध्ये अशुश्रूषा कृता भवे अभावकत्वं भवे । तस्मातर्हि त्वमानन्द सत्कृत्य अयं धर्मपर्यायो धारयितव्यः । अयं ते तथागतस्यानुत्तरसम्यकसंबोध- तथागतकृत्यं करिष्यति पश्चिमे काले पश्चिमे समये सर्वसत्त्वानाम् | ५७ अस्मिन् खलु पुनर्धर्मपर्याये भगवता भाष्यमाणे षष्टीनां प्राणिसहस्राणामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि सप्तानां शतानां बोधिसत्त्वसमाधिप्रतिलंभोऽभूत् । पञ्चानां शतानां नानाबुद्धक्षेत्रव्याकरणप्रतिलंभोऽभूत् । नवतीनां प्राणिसहस्राणां सर्वक्लेशविनिर्मुक्ताः सर्वाक्षणापायदुर्गतयः प्रहीणाः । For Private and Personal Use Only -- अथार्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः पुनर्भगवन्तमेतदवोचत् । अयं भगवन् धर्मपर्यायः पश्चिमकाले पश्चिमसमये तेषां कुलपुत्राणां श्रोतॄणां धारयितॄणां मानयितॄणां तेषां च लेखकानां तथागतकृत्यं करिष्यति । व्याकृतास्ते यथेप्सितेषु नानाबुद्धक्षेत्रेषु । ये च सत्त्वाः पश्चिमे काले पश्चिमे [सम] ये हास्यनाट्यगीतवादितेषु नानाव्याक्षेपबहुला रागद्वेषमोहान्धा रतिक्रीडासंज्ञिनः अनित्ये नित्यसंज्ञिनः ईर्ष्यामात्सर्यदौः शील्यपरिगृहीता न पूजयिष्यन्ति न मानयिष्यन्ति न श्रद्वास्यन्ति न पत्तीयिष्यन्ति न धारयिष्यन्ति न श्रोष्यन्ति न प्रतिपत्त्या प्रतिपत्स्यन्ते । ते तं पूर्वकर्मशुभफलं परिक्षेपं कृत्वा नानादुःख 2 Ms. इमं 1 Ms. त्वं
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy