SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वतथागताधिष्ठान-सत्त्वावलोकन बुद्धक्षेत्रसन्दर्शन-व्यूहम् लाभा अस्माभिः सुलब्धाः । योऽस्माभिः श्रुतम् अपथगामिनां पथमुपदर्शयति अनर्थे अर्थसंज्ञिनाम् अनित्ये नित्यसंज्ञिनाम् असुखे सुखसंज्ञिनां यदस्माभिर्नरकतिर्यग्योनियमलोकपरिमोक्षणार्थं तथागतकृत्यं कृतम् । अवलोकितेश्वर आह। महाकृत्येन तथागतकृत्येन इमं धर्मपर्यायं सर्वसत्त्वानां प्रकाशितम् । ____ भगवानाह। अयं च कुलपुत्र धर्मपर्यायः पश्चिमे काले पश्चिमे समये दक्षिणापथे प्रचरिष्यति तत्रापि भिक्षुभिक्षुण्युपासकोपासिकाराजराजपुत्रमहामात्रामात्या भाजनीभूताः पजका धारका वाचका भविष्यन्ति श्रद्धास्यन्ति पत्तीष्यन्ति। स चे उत्तरपूर्वपश्चिमायां प्रचरे तत् परकर्माभियुक्तास्ते सत्त्वा भविष्यन्ति न श्रोष्यन्ति न श्रद्धास्यन्ति न पत्तीष्यन्ति न पजयिष्यन्ति हीनवीर्यनष्टस्मृतयो नानाव्याक्षेप-कुटम्बदासदासीभोगैश्वर्य-हास्यलास्यनाट्यनृत्यगीतेामात्सर्यस्मृतयो न श्रोष्यन्ति न पत्तीष्यन्ति नपजयि. ष्यन्ति ते अपरिमुक्ता एव जरा-व्याधि-मरण-शोक-परिदेव-दुःखदौर्मनस्योपायासेभ्यः प्रेतयमलोकविषयेभ्यो भविष्यन्ति । तस्मात्तर्हि तैः कुलपुत्रैः कुलदुहितृभिर्वा सर्वापायैरात्मानं परिमोक्तुकामेन सत्कृत्य अयं धर्मपर्यायः पूजयितव्यो धारयितव्यः सत्कर्तव्यः परेभ्यः संप्रकाशतितव्यो मनसा धारयितव्यः। डिम्बडुमरदुःस्वप्न. दुनिमित्तेषु अकालमृत्यु-गोमर-पशुमर-मानुषमरेभ्यो नानाव्याधि. भयोपद्रवेभ्य इमं धर्मपर्यायं पजयित्वा वाचयितव्यः ध्वजे वा उच्छ पितं कृत्वा पूजयित्वा नानागन्धपुष्पधूपवाद्यैः प्रचेष्टव्यः । चतुर्दिशे बलिं ईत्त्वाभिनमस्कृत्य पुष्पधूपगन्धैः सर्व इत्युपद्रवाः प्रशमं यास्यन्ति । For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy