________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वतथागताधिष्ठान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम् प्रतिपत्त्या प्रतिपद्य परिमुक्ता एव भवन्ति जातिजराव्याधि-मरण-शोकपरिदेव-दुःख-दौर्मनस्योपायासेभ्यः सर्वनरकतिर्यग्योनियमलोकेभ्यः । तस्मात् तथागत अयं पुण्यस्कन्ध उपमेनापि प्रमाणं न कुर्वन्ति । यश्च कुलपुत्र अस्य च धर्मपर्यायस्योद्दिश्य सर्षपफलमात्रकं च हिरण्यस्य एकपुष्पं वा एकफलं' वा एकपताकां वा वाद्यं वा गन्धं वा वस्त्र वा आसनं वा आभरणं वा परित्यजे लिखे लिखापये धारये वाचये पूजये सत्करे परेभ्यश्च विस्तरेण संप्रकाशये तं च धर्मभाणक वाचये पूजये यश्च तिष्ठते तथागते संमुखपूजया सपर्ष पूजये मानये सर्वसुखोपधानेन वर्षशतसहस्रमुपतिष्ठे गन्धमाल्यविलेपनैर्ध्वजपताकाभिर्विहारचंक्रमोद्यानं कारापये अर्धयोजनोच्छ्रितं सप्तरत्नमयं स्तूप कारये शतं वा सहस्र वा तथागत [मुद्दिश्यातांश्च दिव्यपूजया पूजये' वर्षशतसहस्रम् अयं च ततो बहुतरपुण्यसंस्कारं स्या। अस्य धर्मपर्यायस्य लिखन-लिखापन-धारण-पठनपूजन-संप्रकाशनया न इमां तथागतसंमुखपूजां न त्वेव सत्त्वेभ्यो दानं दत्त्वा पञ्चभिः कामगुणः क्रीडापयित्वा। तस्मात्तहिं तैश्व कुलपुत्रैः कुलदुहितृभिर्वा राजराजपुत्रमहामात्रामात्यैर्वा सततसमितमयं धर्मपर्यायः पजयितव्यः। तथागतसंज्ञा एवोत्पादयितव्या। तेषां कल्याणमित्राणां य इमं धर्मपर्यायं श्रावयति कथयति अर्थं चास्योपसंहरति तः सत्कृत्य अयं धर्मपर्यायः श्रोतव्य उदग्रहीतव्यो धारयितव्यो वाचयितव्यो मनसि कर्तव्यः । एवं चित्तमुत्पादयितव्यम् ।
1 Tib. सेगसुEIRI 2 Tib. सामु 3_Ms. सत्करेत् . 4 Ms. पूजयेत् 5 Ms. सततसमितमिमं धर्मपर्यायं
For Private and Personal Use Only