________________
Shri Mahavir Jain Aradhana Kendra
७८
www.kobatirth.org
सर्वतथागताधिष्ठान-सरवावलोकन - बुद्ध क्षेत्र सन्दर्शन- व्यूहम्
I
प्रतिपन्ना । तेन हि भगिनि नित्यमेव इमाः प्रतिज्ञास्त्वया नित्यमेव समन्त्राहर्तव्याः । अथेयं महापृथिवी तस्मिन् समये प्रचचाल दिव्यञ्च कुसुमवर्षमभिप्रावर्षत् । सा च सर्वावती पर्षत् साधुकारमदात् । साधु साधु सुभाषितमिदम् । प्रतिज्ञा सर्वसत्त्वानां सर्वाशापरिपूरिका' भविष्यति ।
VII
अथार्यावलोकितेश्वरो बोधिसत्त्वो सहासत्त्वः पुनर्भगवन्तमेतदवोचत्। किं पुनर्भगवन् स कुलपुत्रो वा कुलदुहिता वा लिखन-वाचन- लिखापन-संप्रकाशन-पठन-स्वाध्ययन-पूजनसंप्रका
ܘ
Acharya Shri Kailassagarsuri Gyanmandir
-
-
शनया पुण्यमनुप्राप्स्यति इमस्य धर्मपर्यायस्य । भगवानाह । तेन हि त्वामेवार्यावलोकितेश्वर परिप्रक्ष्यामि यथा ते क्षमं तथा व्याकुरु । अवलोकितेश्वर आह । भगवानेव व्याकुरुतां नास्ति तथागतस्य अदृष्ट वा अश्रुतं वा अविज्ञातं वा । भगवानाह । यश्व कुलपुत्र अस्य धर्मपर्यायस्य लिखन - लिखापन - वाचन पूजन संप्रकाशनपठन- स्वाध्ययनात् पुण्यमनुप्राप्स्यति स उपमेनापि न शक्यं वर्णयितुम् । तत् कस्य हेतोः (सर्वसत्त्वानां यथाभिप्रायपरिपूरकम् । दानं दत्त्वा ते सत्त्वा अपरिमुक्ता एव भवन्ति जरा-व्याधि-मरण-शोकपरिदेव-दुःख-दौर्मनस्योपायासेभ्यः । वर्षशतसहस्रं पञ्चभिः कामगुणैः क्रीडापयित्वा अपरिमुक्ता एव ते सत्त्वा भवन्ति नरकतिर्यग्योनियमलोकप्रेतविषयेषु पुनरपि दुःखान्यनुभवन्ति ) अस्य धर्मपर्यायस्य श्रवणं सत्त्वेभ्यः कृत्वा पूजनं संप्रकाशनं [च] कृत्वा अर्थ चास्यावश्रुत्य
1 Ms. ०रको
3 Ms. अपरिमुक्त एव
2 Ms. त्वमे०
For Private and Personal Use Only
ܘ
-