________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वतथागताधिष्ठान-सत्त्वावलोकन- बुद्धक्षेत्रसन्दर्शन- व्यूहम्
कुण्डिगनेतृक' परिगृहीता समाश्वासयन्ती । ततोऽष्टम्यां पूर्वसेचं कृत्वा पुष्पधूपगन्धमाल्यविलेपनैः सधातुके चैत्यस्थाने बलिपायस - दध्योदनं चतुर्दिशे यावत् पूर्णपञ्चदशीं' शुचिना विद्याधरेण उदार - तरां पुष्पधूपगन्धदीपैः पूजां कृत्वा बलिं दत्त्वा नानारसैरन्यानि च यथालाभेन शुक्लबलिं दत्त्वा सर्वसत्त्वानां मैलचित्तेन दयाचित्तेन भूत्वा जातीपुष्पा[णाम ]ष्टभिः शतैः सा प्रतिमा आहर्तव्या । एकैकं जप्य तवाहं स्वरूपेणोपतिष्ठिष्यामि यथेप्सितं वरं दास्यामि राज्यैश्वर्यम् आकाशगमनं निधिवादं धातुवादं विद्याधरत्वम् अन्यानि च यथेप्सितानि कर्माणि करिष्यामि अकालमृत्यु-प्रतिषेधनं सर्वरोगप्रशमनं परचक्रप्रमर्दनं पुत्रलम्भम् अर्थागमनं प्रीतिं सर्वसत्त्वेषु । यदि चाहं भगवन् पञ्चानन्तर्यं करिष्यामि न सर्वाशां परिपूरयेयं मा चाहं भगवन्ननुत्तरां सम्यक्संबोधिमभिसंबुध्येयं सद्धर्मप्रतिक्षेपकं स्थाप्य यश्च विचिकित्साप्राप्तो बुद्धधर्मसंघे' । भगवानाह । साधु साधु भगिनि साधु खलु पुनस्त्वं भगिनि यत्त्वं सर्वसत्त्वानां हिताय सुखाय " प्रतिपन्ना अस्यैव च धर्मपर्यायस्य चिरस्थित्यर्थं
1 Tib. ལྷ་མོ་ཆེན་མོ་འཇིགས་བྱེད་མ་འདམ་བུ་མདའ་རྒྱུའི་མདོག་ལྟར་ དཀར་ ཤམ་དུ་ མཆིས་ལ ། རད་པ་དཀར་པོ་ འཆལ་བ ། རྒྱན་ཐམས་ ཅད་ཀྱིས་ བརྒྱན་པ ། རིལ་ བ་དང་ བགྲང་ཕྲེང་ ཐོགས་ཤིང་ সংা এ' হघुমাা" शव | = महादेवी भयङ्करी शरकाण्डगौरी सर्वालंकारविभूषिता कुण्डिकनेतृकपरिगृहीता समाश्वासयन्ती ॥
2 Ms. ०दश्यां
3 See ante, p. 73.
4 Tib. puts the words सद्धर्मप्रतिक्षेपको... संधे before यदि चाहं । 5 Ms. यस्त्वं 6 Ms. प्रतिपन्नः
For Private and Personal Use Only
७७