Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७० सर्वतथागताधिष्ठान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम् श्चिरजीवी [भविष्यति । सर्वशत्रवः सर्वराजराजपुत्रामात्यदर्शनाभि. कांक्षिणो भविष्यन्ति प्रियंकराः सर्वक्लेशरागद्वेषमोहप्रहीणाः। न च जातु प्रियविप्रयोगो भविष्यति। महादृढबलवीर्यसंमन्नस्तेजवांस्तीक्ष्णेन्द्रियो बुद्धिमान् सर्वसत्त्वदयाचित्तो धर्मज्ञो यावच्च्यवन काले बुद्ध भगवन्तमार्यावलोकितेश्वरं पश्यति। मैत्रविहारी कालं करोति । धर्म देशयमानं यथेप्सितेषु बुद्धक्षेत्रषु महाचक्रवर्तिकुलेषु यत्रानुस्मृतिं करोति तत्रोपपद्यते। अन्यानि चानेकानि गुणसहस्राणि प्रतिलप्स्यते । एवं भगवन् बहुगुणकरोऽयं धर्मपर्यायः । इमानि ते धारणीमन्त्रपदानि न विना तथागताधिष्ठानस्यायं धर्मपर्यायं शक्यं श्रोतुं न धारयितुं न पूजयितुं न लिखितुं न लिखायितुं न श्रद्दधातुम् । सचे दर्शनं भवे न श्रवं भविष्यति। सचे श्रवणं तद्विक्षिप्तचित्तः श्रोष्यति न श्रद्धास्यति न सत्करिष्यति। सचे सत्करे क्लेशव्यापादचित्तः [ सत्करिष्यति ] सचे लिखे लिखापयेत व्याक्षिप्तचित्तः। तत् कस्य हेतोः] । तथा हि तस्य पूर्वपापकर्मफलहेतुत्वात् कर्मानुभवितव्यम् । स विचिकित्साप्राप्तो भविष्यति । पंचानन्तर्य करिष्यति । त्रिभिः साधनैः सर्वाशा. समृद्धिर्भविष्यति । नात्र कांक्षा न विमतिर्न विचिकित्सोत्पादयितव्या। अथ भगवान् अवलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय] साधुकारमदात् । साधु साधु कुलपुत्र । तथागतकृत्यमयं धर्मपर्यायः करिष्यति सर्वसत्त्वानाम् ।
1 Ms. किं कर ; Tib. माडेको WER:F | प्रिय 2 Ms. सत्करेत
___3 Ms. कृत्योऽयं
For Private and Personal Use Only

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266