SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७० सर्वतथागताधिष्ठान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम् श्चिरजीवी [भविष्यति । सर्वशत्रवः सर्वराजराजपुत्रामात्यदर्शनाभि. कांक्षिणो भविष्यन्ति प्रियंकराः सर्वक्लेशरागद्वेषमोहप्रहीणाः। न च जातु प्रियविप्रयोगो भविष्यति। महादृढबलवीर्यसंमन्नस्तेजवांस्तीक्ष्णेन्द्रियो बुद्धिमान् सर्वसत्त्वदयाचित्तो धर्मज्ञो यावच्च्यवन काले बुद्ध भगवन्तमार्यावलोकितेश्वरं पश्यति। मैत्रविहारी कालं करोति । धर्म देशयमानं यथेप्सितेषु बुद्धक्षेत्रषु महाचक्रवर्तिकुलेषु यत्रानुस्मृतिं करोति तत्रोपपद्यते। अन्यानि चानेकानि गुणसहस्राणि प्रतिलप्स्यते । एवं भगवन् बहुगुणकरोऽयं धर्मपर्यायः । इमानि ते धारणीमन्त्रपदानि न विना तथागताधिष्ठानस्यायं धर्मपर्यायं शक्यं श्रोतुं न धारयितुं न पूजयितुं न लिखितुं न लिखायितुं न श्रद्दधातुम् । सचे दर्शनं भवे न श्रवं भविष्यति। सचे श्रवणं तद्विक्षिप्तचित्तः श्रोष्यति न श्रद्धास्यति न सत्करिष्यति। सचे सत्करे क्लेशव्यापादचित्तः [ सत्करिष्यति ] सचे लिखे लिखापयेत व्याक्षिप्तचित्तः। तत् कस्य हेतोः] । तथा हि तस्य पूर्वपापकर्मफलहेतुत्वात् कर्मानुभवितव्यम् । स विचिकित्साप्राप्तो भविष्यति । पंचानन्तर्य करिष्यति । त्रिभिः साधनैः सर्वाशा. समृद्धिर्भविष्यति । नात्र कांक्षा न विमतिर्न विचिकित्सोत्पादयितव्या। अथ भगवान् अवलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय] साधुकारमदात् । साधु साधु कुलपुत्र । तथागतकृत्यमयं धर्मपर्यायः करिष्यति सर्वसत्त्वानाम् । 1 Ms. किं कर ; Tib. माडेको WER:F | प्रिय 2 Ms. सत्करेत ___3 Ms. कृत्योऽयं For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy