Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
॥६॥
सममाकृष्य, विषयेभ्यः स्वमानसम् । धर्मध्यानकृते तस्मान्मनः कुर्वीत निश्चलम् ॥ १३ ॥ विरतः कामभागेभ्यः, स्वशरीरेsपि निःस्पृहः । संवेगद निर्ममः, सर्वत्र समतां भयेत् ॥ १४ ॥ सुमेरुरिव निष्कम्पः शशीवानन्ददायकः । समीर इव निस्सङ्गः सुधीर्ध्याता प्रशस्यते ॥ १५ ॥ आत्मनश्चिन्मयं रूपं परब्रह्मैकतां गतम् । स्वदेहस्थं सदा ध्येयं, सुधियोपाधिवर्जितम् ॥ १६ ॥ निवेश्य हृदयाम्भोजे, पदानि परमेष्ठिनाम् । तद्वर्णं लयलीनात्मा, ध्यायेतानन्दमेदुरः ॥ १७ ॥ अर्हन्तं कर्मनिर्मुक्तं, केवळ ज्ञानभास्करम् । आसीनं समवसृतौ प्रातिहार्यविराजितम् ॥ १८ ॥ ध्यानालम्बनतां नीत्वाऽथवा मूर्ती - जिने शितुः । मनसः स्थिरतां कुर्यानिर्विकल्पं समाधिमान् ||१९|| क्रमेणाभ्यासयोगेन, सम्यग्योगविदग्रणीः । संध्यायेत्परमास्मानं, निराकरं निरञ्जनम् || २० || मच्छन्नपाप्मनः शुद्धिरिहाधिव्याधिनिर्गमः । परत्र परमैश्वर्ये, पदस्थध्यानसिद्धितः ॥ २१ ॥ अतीतानागतार्थानां वेदिताऽष्टसमृद्धयः । विन्दुनादवपुःशुद्धिः, पिण्डस्थध्यानयोगतः ॥ २२ ॥ रूपस्थध्यानली - नात्मा, क्लिष्टकर्मक्षयात् शमी । लभते केवलज्ञानं, प्राणी पुण्याढयभूपवत् || २३ || रूपातीतपदं ध्यायन्निष्कषायो विकल्प - मुक् । ध्याता रूपविनिर्मुक्तश्चिदानन्दमयो भवेत् ।। २४ ।। तथा सुभाव केणाप्येतत्स्थानकं कुर्वता प्रमादपरिहारार्थं रागद्वेषपरिहाररूपं बहुशोऽपि सामायिकत्रतं विधेयं यतः - * जीवो पमायबहुलो, बहुसावि य बहुविहेसु अत्थेसु । एएण कारणं, बहुसो सामाइयं कुञ्ज ।। २५ ।। जो समो सव्वभूएसु, तसेसु थावरेसु अ । तस्स सामाइयं होइ, इइ केवलि* जीवः प्रमादबहुलो बहुशोऽपिच बहुबिहेष्वर्थेषु । एतेन कारणेन बहुशः सामायिकं कुर्यात् ॥ २६ ॥ यः समः सर्वभूतेषु त्रसेषु स्थावरेषु च । तस्य सामायिकं भवति इति केवलिभाषितम् ॥२६॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102