Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 101
________________ धर्मोपदेश ॥९५॥ संग्रह गच्छन्ननु क्रमेण च । मार्गेऽमदावादनाम नगर बागमत्तदा ॥१७०॥ मुरादनामा सुलतानः ससंघ मुनिपुङ्गवम् । सत्कारमकरोत्वाढं तथाऽर्चीद् बहुद्रव्यकैः ॥१७१ ॥ ततो गुरूपदेशं सः श्रोतुमीहामदर्शयत् । सरीश्वरोऽपि विविधानुपदेशान् चकार तम् ।। १७२ ॥ गुरोर्व्याख्यानमाकर्ण्य तद्दिने स हि शासकः । जीवहिंसानिषेधश्च कृतो निमुलपत्तने ॥ १७३॥ एवं कतिपयान् अन्यान् शासकान् श्री जगद्गुरुः । उपदिश्य भृशं जीवदयाकार्य व्यवादिति ॥१७३॥ दीक्षादानम् . समप्रवृत्तिः समयो नाभूत् कश्चित् कदापि च । यदा यस्यैव कार्यस्य भवेदावश्यकता बहु ॥१७५।। तस्मिभेव प्रवृत्तिर्हि लोकानां भवति ध्रुवम् । तादश्येव तदा बुद्धिः प्रकृत्या जायते स्वयम् ॥१७६॥ दर्शनोदयकालो हि यदाग| च्छति भूतले । निर्माणं मन्दिराणां प्रतिष्ठा त्रिदिवौकसाम् ॥१७७॥ महोत्सवसमारम्भो संघप्रस्थापनं तथा। इत्यादिशुभकार्येषु प्रवृत्ति भवति नृणाम् ॥१७८॥ ज्ञानोदस्य काले तु ज्ञानविस्तारकारिका । पाठशाला ग्रन्थशाला विश्वविद्यालयादयः ॥१७९॥ संस्थापयन्ति च जनाः शालाज्ञामप्रचारिकाः। चारित्रस्योदयाः कालो यदागच्छति भृतले ॥१८०॥ साधूनां हि तदा वृद्धिः सर्वत सम्भवन्ति च । चक्रमषोडशे सप्तदशे च शतके खलु ॥१८१॥ चारित्र्योदय कालोहि आसीदस्मिश्च भारते ॥

Loading...

Page Navigation
1 ... 99 100 101 102