Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
॥१२॥
मनोरोधे निरुध्यन्ते, कर्माण्यपि समन्ततः । अनिरुद्धमनस्कस्य, प्रसरन्ति हि तान्यपि ॥ ४ ॥ मनः कपिरयं विश्व- परिभ्रमणलम्पटः । नियन्त्रणीयो यत्नेन, मुक्तिमिच्छुभिरात्मनः ॥ ५ ॥ दीपिका खल्वनिर्वाणा, निर्वाणपथदर्शिनी । एकैव मनसः शुद्धिः समानाता मनीषिभिः ॥ ६ ॥
उ०- ज्ञाने ध्याने दाने, माने मौने सदोद्यतो भवतु । यदि निर्मलं न चित्तं तदा हुतं भस्मनि समग्रम् ॥ १ ॥ सत्यां हि मनसः शुद्ध, सन्त्य सन्तोऽपि यद्गुणाः । सन्तोऽप्यसत्यां नो सन्ति, सैव कार्या बुधैस्ततः ॥ ७ ॥ शुद्धिविभ्राणा, ये तपस्यन्ति मुक्तये । त्यक्त्वा नावं भुजाभ्यां ते, तितीर्षन्ति महार्णवम् ॥ ८ ॥ तपस्विनो मनः शुद्धि विनाभूतस्य सर्वथा । ध्यानं खलु मुधा चक्षु-विकलस्येत्र दर्पणः ॥ ९ ॥ तदवश्यं मनःशुद्धिः, कर्तव्या सिद्धिमिच्छता । तपः श्रुतयममायैः, किमन्यैः कायदण्डनैः ॥ १० ॥
जयसेनाप्रबन्धः
et जयसेनायाः प्रबन्धोऽभिधीयते -
उञ्जयिन्यां संग्रमः शूरो नृपोऽभूत् । तत्र वृषभश्रेष्ठो । तस्य कलत्रं जयसेना सम्यक्त्वगुणविशिष्टा पत्यनुगाऽभवत् । परं वन्ध्यत्वदोषान्विता । सा स्वामिनं प्रत्येकदा प्राह - "स्वामिन् सन्तानार्थ विवादं कुरु । पुत्रं विना नौ कुलं न शोभते । यदुक्तम्

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102