Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 76
________________ ॥७ ॥ ॥ अथ चतुर्थों वर्गः ॥ प्रक्षाल्य स्वल्पनीरेण पादौ हस्तौ तथा मुखम् । धन्यमन्यः पुनः सायं पूजयेच्छी जिनं मुदा ॥१॥सक्रियासहितं ज्ञानं जायते मोक्षसाधकम् । जानन्निति पुनः सायं कुर्यादावश्यकक्रियाम् ॥२॥ क्रियैव फलदा लोके न ज्ञानं फलदं मतम् । यतः स्वाभक्ष्यभेदज्ञो न ज्ञानात्सुखितो भवेत् ॥ ३॥ गुर्वभावे निजे गेहे कुर्वीतावश्यक सुधीः । विन्यस्य स्थापनाचार्य नमस्कारावलीमथ ॥ ४॥ धर्मात्सर्वाणि कार्याणि सिद्धयन्तीति विदन् हृदि । सर्वदा तद्गतस्त्रान्तो धर्मवेला न लंघयेत् ॥ ५ ॥ अतीतानागतं कर्म क्रियते यजपादिकम् । वापिते घोषरक्षेत्रे धान्यवन्निष्फलं भवेत् ॥ ६ ॥ विधि सम्यक् प्रयुञ्जीत कुर्वन् धर्मक्रियां सुधीः । हीनाधिकं सृजन् मन्त्रविधि य:खितो भवेत् ॥ ७॥ धर्मानुष्ठानबैतथ्यात्प्रत्युतानर्थ संभवः । रौद्ररन्ध्रादिजनको दुःप्रयुक्तादिवौषधात् ॥ ८॥ वैयावृत्यकृतं श्रेयोऽक्षयं मत्वा विचक्षणः । विहितावश्यक श्राद्धः कुर्याद्विश्रामणां गुरोः ॥९॥ वस्त्रातमुखा मौनी हरन् सर्वांगज श्रमम् । गुरुं संवाहयेद्यत्नात्पादस्पर्श त्यजन्निजम् ॥१०॥ ग्रामचैत्ये जिनं नत्वा ततो गच्छेत्स्वमन्दिरम् । प्रक्षालितपदः पञ्चपरमेष्ठिस्तुति स्मरेत् ॥११॥ अर्हतः शरणं सन्तु सिद्धाश्च शरणं मम । शरणं जिनधर्मो मे साधवः शरणं सदा ॥ १२॥ नमः श्रीस्थूलभद्राय कृतभद्राय तायिने । शीलसन्नाहमाधृत्य यो जिगाय स्मरं स्यात् ।। १६ ।। गृहस्थस्यापि यस्यासीच्छीललीला बृहत्तरा । नमः सुदर्शनायास्तु सदृर्शनकृतश्रिये ॥१४॥ धन्यास्ते कृतपुण्यास्ते मुनयो जितमन्मथाः । आजन्म निरतीचारं ब्रह्मचर्य चरन्ति ये ॥१५॥

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102