Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
धर्मोपदेश
116211
सर्वान् साधुन समादिशत् । आयंबिलं विधातव्यः श्वः सर्वे यतिनः खलु ||३७|| प्रायश्चित्तमिदं सर्वे स्वीचक्रुः साधवो मुदा । परे च दिवसे सर्वे साधवः सुरिशडपि ||३८|| आयंबिलं तपश्चक्रे: स्वपापक्षयहेतवे । आयंबिलतपस्यायामासीत् श्रद्धा गुरोः सदा ||३९|| महत् कार्यचिकीर्षायां सुरेरेष विनिश्चयः । आयंबिलं विद्यायैव कार्य प्रारभते हि तत् ||४०|| अत आयं - बिलं कृत्वा गत्वा सुरतान संनिधिम् । कारागारे संयतानां श्रावकानां विमुक्तये ||४१ | | उपदेशं ददौ सुरिः सुरतानं नराधिपम् । उपदेशप्रभावेण महारावश्च सत्वरम् ||४२|| प्रभावितो हि तान् सर्वान् मोचयामास श्रावकांन् ।
सुलतान हविवलः
विहारमेकदा कृत्वा सूरिः खंभातमागतः | हवीवलाख्यो यवनः आसीदत्र तदा मदी ||४३|| सूरिद्विट् महीनामा - saलोsप्यासीत् च पत्तने । तस्य प्रेरणया म्लेच्छो ग्रामान्निष्कासयद् गुरुम् ॥ ४४ ॥ अनेन जैनजातौच हाहाकारमभूद् बहु । ये चासन् साधस्तत्र सर्वगच्छानुयायिनः || ४५ || गुरुणा सह ते चापि पत्तनाद् बहिरागताः । अपमाने प्रतिकारं क धनविजय मुनिः ॥ ४६ ॥ विहारं सततं कृत्वा सम्राजमगमद् द्रुतम् । तदोपाध्यायपदभाक् शान्तिचन्द्रो यतीश्वरः ॥ ४७ ॥ आसीदकबरासन्ने सर्वशास्त्रविदग्रणिः । ततः स निखिलं वृत्तं श्रावयामास तं यतिम् ॥ ४८ ॥ समस्तं वृत्तमाकर्ण्य शान्तिचन्द्रो मुनीश्वरः । गत्वा चाकबरासन्नं न्यवेदयत तं नृपम् ॥ ४९ ॥ सम्राड् निशम्य तं वृत्तं कुपितः सन्नुवाच च । सूरीश्वरः तिरस्कर्त्ता बधाई इति मे मतिः ॥ ५० ॥ मन्निदेशादतस्तस्य वध भवतु सत्वरम् । आज्ञापत्रं गृहीत्वैतद् यतिर्धन
संग्रह

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102