Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
धर्मोपदेश॥६९॥
विश्वस्तघातकरणं नाचरेदर्थनत्परः || ४० || आदाने च प्रदाने च न कुर्यादुक्तलोपनम् । प्रतिष्ठां महतीं याति नरः स्ववचने स्थिरः ||४१ || धीरः स्ववस्तुनाशेऽपि पालयेद्धि निजां गिरम् । नाशयेत्स्वल्पलाभार्ये वसुवत्स्यात्स दुःखितः ॥४२॥ एवं व्यवहारपरो यामं तुयै च यापयेत् । वैकालिककृते गच्छेदथो मन्दिरमात्मनः ||४३| एकाशनादिकं येन प्रत्याख्यानं कृतं भवेत् । आवश्यककने सायं मुनिस्थानमसौ व्रजेत् ॥ ४४ ॥ दिवसस्याष्टमे भागे कुर्याद्वैकालिकं सुधीः । प्रदोषसमये नैव निश्यद्यामैत्र कोविदः || ४५ ॥ चत्वारि खलु कर्माणि सन्ध्याकाले विवर्जयेत् । आहारं मैथुनं निद्रां स्वाध्यायं च विशेषतः ।। ४६ ।। आहाराजायते व्याधिर्मैथुनान्गर्भदुष्टता । भूतपीडा निद्रया स्यात् स्वाध्यायाद् बुद्धिहीनता ||४७|| प्रत्याख्यानं द्युचरिमं कुर्याद्वैकालिकादनु । द्विविधं त्रिविधं चापि चाहारं वर्जयेत्समम् ॥ ४८ ॥ अहो मुखेऽवसाने च यो द्वे द्वे घटिके त्यजेत् । निशाभोजनदोषज्ञो ( विज्ञेयः ) पुण्यभाजनम् ॥ ४९ ॥ करोति विरति धन्यो यः सदा निशि भोजनात्। सोऽर्द्ध पुरुषायुष्कस्य स्यादवश्यमुपोषितः ॥ ५० ॥ वासरे च रजन्यां च यः खादन्नेव तिष्टति । शृपुच्छ परिभ्रष्टः स्पष्टं स पशुरेव हि ।। ५१ ।। उलूककाकमार्जारगृध्र शम्बरस्कराः | अहिवृश्चिक गोधाश्च जायन्ते रात्रिभो - जनात् ।। ५२ ।। नैवाहुतिर्न च स्नानं न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्रौ भोजनं तु विशेषतः ।। ५३ ॥ एवं नद्यचतुरोऽपि यामान् । नयाभिरामः पुरुषो दिनस्य । नयेन युक्तो विनयेन दक्षो भवेदसावच्युतसौख्यभाग वै ॥ ५४ ॥ ॥ इति श्री रत्नसिंहसूरीश्वर शिष्य श्री चारित्र सुन्दरगणि विरचिते आचारोपदेशे तृतीयो वर्गः ॥ १ वसुनामक नृपवत् । २ " व्यवहार पर " इत्यपि पाठः । ३ सांजे बालु करवाने माटे ।
संग्रह

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102