Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 71
________________ धर्मोपदेश॥६५॥ १३ । पाकाद्यर्थं चाग्नेः समर्पणम् १६ | पानाद्यर्थं शीतोदकस्य १७ । चौरापहृतच्चतुष्पदादिबन्धनार्थ रज्जूनां च प्रदानं १८ । ज्ञानपूर्वकं चेति सर्वत्र योज्यम्, अज्ञानपूर्वकस्याऽनपराधत्वात् । 'हुंतावायपगासण' इति अशुद्धव्यवहारकृतो ये भाविनोऽपाया अनर्थ राजदण्डनरकपातादयस्तेषां प्रकाशनं प्रकटनम् । भद्र ! मा कृथाः पापानि चौर्यादिनि, इहामुत्र चानर्थकारीणीति परेभ्यः प्रतिपादनमेवं प्रकारेण । तथा हिअनारण वित्तं दव्वमसुद्धं असुद्वदव्वेणं । आहारोवि असुद्धो तेण असुद्धं सरीरंपि ॥१॥ देहेण असुद्वेणं जं जं किअइ कयावि सुहकिच्चं । तं तं न होई सहलं बीयं पित्र उसरनिहितं ॥ २ ॥ तथा “ मितीभावो य सब्भावा" इति मित्रस्य भावः कर्म वा मैत्री, तस्या भावो भवनं निष्कपटतया । सुमित्रयन्निष्कपटमैत्री करोतीत्यर्थः । न तु कपटमैत्री दर्शयन् जनं वञ्चयति । एवं हि गोमुखव्याप्रवृत्त्या व्यवहरन् सर्वेषामविश्वासस्थानं पापभाक् च भवेदिति ज्ञात्वा चतुर्द्धा ऋजुभ्यवहारः स्याद्विवेकी । अयं च व्यवसायव्यवहारः ऋयाणकेष्वद्दष्टेषु न सत्यङ्कारमर्पयेत् । दद्याच्चेद्बहुभिः सार्द्धमिच्छेल्लक्ष्मीं वणिग् यदि || १ || कुर्यात्तत्रार्थसम्बन्धमिच्छेद्यत्र न सौहृदम् । यदृच्छया न तिष्ठेच्च प्रतिष्ठाभङ्गभीरुकः ||२|| व्यापारिभिश्च विप्रैश्व सायुधैश्च वणिग्वरः । श्रियमिच्छन्न कुर्वीत व्यवहारं कदाचन ॥३॥ नटे पण्याङ्गनायां च द्यूतकारे विटे तथा । दद्यादुद्धारके नैव धनरक्षापरायणः || ४ || धर्मबाधाकरं यच्च यच्च स्यादयशस्करम् । भूरिलाभमपि ग्राह्यं पण्यं पुण्यार्थिभिर्न तत् ॥ ५॥ धनं यश्वाते किंचित्कूटमानतुलादिभिः । नश्येत्तन्नैव दृश्येत तप्तपात्रेऽम्बुविन्दुवत् || ६ || 44444 संग्रह

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102