Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 72
________________ ॥६६॥ भाव्यं प्रतिवा नैव दाक्षिण्येन न साक्षिणा । कोज्ञपानादिकं चैव न कर्त्तव्यं यतस्ततः ॥७॥ धातुवादादिसम्बन्धाद्धनमीहते । स मषीकूचकैर्षा धवलीकर्तुमिच्छति |८|| इह प्रायो लोभाकुलिततया बद्द्वारम्भश्रावकानुचितद्विपद चतुष्पद लोहगुली तिलादिकु वस्तु व्यवसाययन्त्रकर्मादिकुव्यापारधर्मकर्मव्यय संक्षेपादिप्रकारैः क्रियमाणेन धनवृद्धिर्जायते, शुभकर्मोपचितधर्मानुसारित्वात्तस्याः । यतः - यत्नानुसारिणी विद्यालक्ष्मीः पुण्यानुसारिणी । दानानुसारिणी कीर्तिर्बुद्धिः कर्मानुसारिणी ॥ १ ॥ अत्र घनश्रेष्ठिज्ञातम् - काञ्चनपुरे सुन्दर श्रेष्ठिभूः घनश्रेष्ठी । ९९ लक्षधनत्वामि । ५५ लक्षाः पूर्वजकमागताः । ४४ लक्षास्तत्पित्राऽर्जिताः । पितरि स्वर्गते तेन श्रेष्ठिना कोटिं कर्तुमिच्छता गृहधर्मादिव्ये लक्षमेकं न्यूनं कृतं, तथाऽपि वर्षान्ते लेखके विलोकिते केषाञ्चिकयाणकाणां समभवनादिना तावदेव धनं नाधिककमभूत् । ततो देशान्तरेषु १५ कर्मादान प्रकारैर्व्यवसायं वितन्वता समधिककोटिरप्यर्जिता । पश्चादागच्छतो मार्गे भिल्लैः सर्व लुण्टितम् । किञ्चिदाभरणादिसारं गुप्तीकृतं तल्लात्वा गृहे समायातः । पुनर्लेखके तावदेव । ततो महालोभाकुलमनाः पल्ल्यादिप्रत्यन्तग्रामेषु चौरानीतवस्तुसमर्ध्यादान चौरप्रदानविरुद्धराज्यातिक्रमादिभिः सपाद कोटिमुपार्जितवान् । क्वापि ग्रामे वह्निना सर्वे ज्वलितम् । गृहागतः स्वनिदापरो मित्रेण जिनदत्तेन बोधितः । हे सुहृत् मा कुव्यवसायेन द्रव्यहानि धर्महानि च कुरु । गृहादिव्ययमपि तावन्तमेव कुरु । ततस्तथा कृत्वा व्यवहरति एकदा कोटीध्वजवतां लक्षेश्वरैरभ्युत्थानादिप्रतिपत्ति क्रियमाणां दृष्ट्वा " साहण-वाहण - पाहण " इति भूरिद्रव्यार्जनप्रकारत्रयं श्रुत्वा पूर्वं तुरगव्यवसायो मण्डितः । पश्चान्मित्रादिभिर्वार्यमाणोऽपि पोते चटितः । बहुकोटिमितं द्रव्यमर्जितम् । पश्चादागच्छन् भग्नपोतो लब्धफल

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102