Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
॥४६॥
व्यवसायं परित्यजेत् ॥५७॥ एवं चरन् प्रथमयामविधिं समयं श्राद्धो विशुद्धहृदयो नयराजम नम् । विज्ञानमानजनरंजनसावधानो, जन्मद्वयं विरचयेत्सफलं स्वकीयम् ॥५८॥
श्री चारित्रसुररगणिविरचिते - आचारोपदेशे प्रथम प्रहर वर्ग प्रथमवर्गः ।
अथ द्वितीयो वर्गः ।
अथ स्वमंदिरं यायाद् द्वितीये प्रहरे सुधीः । निर्जन्तुभुवि पूर्वाशाभिमुखः स्नानमाचरेत् ॥ १॥ सप्रणालं चतुः पङ्कं स्नानार्थं कारयेदरम् । तदुघृते जले यस्माज्जंतुबाधा न जायते ॥ २॥ रजस्वला स्त्री मलिन-स्पर्शं जाते च सूतके । मृतस्वजनकार्ये च सर्वांगस्नानमाचरेत् || ३ || अन्यथोत्तमांगवर्जं वपुः प्रक्षालयेत्परम् । कत्रोष्णेनाल्पपयमा देवपूजाकृते कृती ||४|| चंद्रादित्यकरस्पर्शात्पवित्रं जायते जगत् । तदाधारं शिरो नित्यं पवित्रं योगिनो विदुः ||५|| दयासाराः सदाचारास्ते सर्वे धर्महेतवे । शिरःप्रक्षालनान्नित्यं जीवोपद्रवो भवेत् ||६|| नापवित्रं भवेच्छीर्ष नित्यं वस्त्रेण वेष्टितम् | अध्यात्मनः स्थितेः शश्वन्निर्मल
धारिणः || || स्नाने येऽतिजलोत्सर्गाद् धनंति जंतून् बहिर्मुखाः । मलिनीकुर्वते जीवं शोधयंतो वपूर्हि ते ॥ ८ ॥ विहाय पोतिकं वस्त्रं परिधाय जिनं स्मरन् । यावज्जलाद्रौ चरणौ तावत्तत्रैव तिष्ठति ॥९॥ अन्यथा मलसंश्लेषादपावित्र्य पुनः पदोः । लग्नजीवघातेन भवेद्वा पातकं महत् ॥ १० ॥ गृह चैत्यांतिक गत्वा भूमिसंमार्जनादनु । परिधायार्चावस्त्राणि मुखकोशं
१ " स्युः सर्वे " इत्यादि पाठः । २ " गृहचैव्याम्यर्ण " इत्यादि पाठः ।

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102