Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
धर्मोपदेश
॥५५॥
श्रणिकेनापि कथंचिद् धृत्वा पट्टहस्ती कृतः । राजयोग्याहाराच्छादनादिभिः परिचर्यमाणः सुखी जातः । अथान्यदा तापसैरस्मदाश्रम - भञ्जनफलमेतदिनि स्मारितमर्मा स्तम्भमुन्मूल्य निर्गतः । पुनस्तापसा श्रमो भग्नः पृष्टौ श्रेणिकः सपरिकरः । हस्ती १ दुर्दमः । केनापि वशीकर्तुमशक्यः । नृपादेशेन नन्दिषेण कुमारेण हक्कितः सन् तं कुमारं दृष्ट्वा ममैष क्यापि सम्बन्धीती हापोहवशाज्जातजातिस्मृतिः शान्स एव तस्थौ । ततः कुमारेणानीयालानस्तम्भे निबद्धः श्रेणिकादीनां विस्मयश्च ।
अत्रान्तरे वैभारगिरौ श्रीवीरजिनः सम वसृतः । श्रेणिकाभयनन्दिषेणादयो वन्दनार्थं प्राप्ताः । धर्मदेशनान्ते स्वामिपार्श्वे पृच्छा हस्त्युपराभादि विषया । कथितश्च जिनेन पूर्वभवलक्षभोज्यसाबुदानादिव्यतिकरः । पुनरागामिभवप्रश्ने जिनः प्राह - राजन् ! न्यायागतवित्तसुपात्र विनियोगेन नन्दिषेणकुमारोऽनेकान् देवमनुजादि महाभोगान् भुक्त्वा संयमं प्राप्य देवभूयं प्राप्तः क्रमेण सिद्धिसुखमवाप्यतीति । गजजीवस्तु ताद्रव्यपात्राविवेचकतया दानादिना भोगान् प्राप्तवान, परं प्रेत्य प्रथम रकगामीति श्रुत्वा प्रबुद्धः श्राद्धधर्म प्रपन्नः । क्रमेण दीक्षां गृह्णन् देवतया तवाद्यापि भोगकर्म बह्रस्तीति वचोभिर्निषिद्धोऽपि प्रवज्यां जग्राह । प्राक्तननिकाचितभोगकर्मोदयप्ररितो वेश्यागृहे १२ वर्षाणि तस्थौ प्रतिदिनं दश दश प्रबोधकृत् इत्यादि नन्हिषेणकथाऽन्यतो ज्ञेया ॥
इत्थं गृही दानविधौ विधिज्ञो, न्यायार्जितार्थः शुभपात्रपोषी ।
आवाप्य भोगान सुभगान् क्रमेण, सिद्धिश्रियः संश्रयते सुखानि ॥ १ ॥
" न्यायागतद्रव्यय तत्पात्र पोषरूपो द्वितीयः " यत्र तत्र भवेषु भोगमात्रफलोऽपि प्रान्ते विरसफल एव, लक्षभोज्यकृद् ब्राह्मणवत् । यदाह१ " दुर्मत्तः " ।
संग्रह

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102