Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 44
________________ R ॥३८॥ नैगमसंग्रहो, व्यवहारो विषगरलानुष्ठानेन, ऋजुमूत्रेण (:) कटुविपाक भीत्या, शब्दसमभिरूढौ तदेतृतया, एवंभूतस्त्यागः सर्वथा वर्जनं वर्जना यत्नेन" । इत्याद्यनेकयुक्तिगर्भितमुपदेशं श्रुत्वा भानुकुमारस्तीर्थकरचरणावभिवन्द्य चारित्रमोहक्षयोपशमेन | जातविरतिमतिर्भणति स्म-" हे नाथ! अशरणशरण! महासार्यवाह ! भवसमुद्रनिर्यामक ! मम सर्वविरतिसामायिकमुपदिश, येन विषयकषायत्यागो वर्धते"। एवं निशम्याहता सामायिकचारित्रं दत्तम् । गृहीतव्रतः श्रमणो जातः । स कुमारो मृतः । तत्र तज्जनकः सपरिकर आगतः सुतं मृतं वीक्ष्य विषण्णोऽभूत् । जननी विलापं वितन्वती क्रन्दन्ती रुदनं चकार । तदा ज्ञटित्येव देवत्वं लब्ध्वा समागात् सो जिनाभ्यणे । तौ पितरौ विलपन्तौ दृष्ट्वा भणति-"किमेतादृशं दुःखम् ? यज्जिनचरणौ परमसुखदायको लब्ध्वा रुदनं कुरुथः १"। तावूचतु:-"अस्मत्सुतः परमवल्लभो विपन्नः, तस्य वियोगो जातः, तदुःखं दुःसहम्" । सुरः पाह-“हे नृप! शृणु, तस्य शरीरं तवेष्टं तदैतत्तत्पतितकलेवरे रागं कुरु । हे मातः! त्वं कथं पुनर्विलपसि ? तव पुत्रः क कस्मिन् स्थले शरीरे वा जीवे वा ? द्वावपि तव पुरो वर्तेते, न युक्तं रोदनम्" । ततो जनकोऽवदव"नोऽत्र रागोऽस्माकं प्रसरति"। सुरोऽवदत्-" तर्हि स्वार्थ एव सर्वेष्विष्टः, परं परमार्थस्तु न, तदा सर्वमनित्यमेव, व्यलीकमेव संबन्धव्युहमवस्तु, युवां कथं मुह्यथः ? सर्वो लौकिक संबन्धो भ्रमरूप एव । यत: युष्माकं सङ्गमोऽनादिर्बन्धोऽनियतात्मनाम् । ध्रुवैकरूपान् शीलादिवन्धनित्यं समाश्रये ॥१॥ हे बन्धवः! युष्माकं सबन्धोऽनादिरसंयतात्मनां भवति । अधुना ध्रुवकरूपान् शीलादिबन्धून् शीलशमदमादिबन्धून् हितकारकान् नित्यं सदा समाश्रये ( अहम् )। SAIRECA+

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102