Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 42
________________ ॥३६॥ कनकच्छेदसंकाश-शिखाऽऽलोकविमोहितः । रभसेन पतन दीपे, शलभो लभते मृतिम् ॥२०॥ हरिणो हारिणी गीति-माकर्णयितमुद्धरः। आकर्णाकृष्टचापस्य, याति व्याधस्य वेध्यताम् ॥२१॥ एवं विषय एकैकः, पञ्चत्वाय निषेवितः । कथं हि युगपत् पञ्च, पञ्चत्वाय भवन्ति न? ॥२२॥ तदिन्द्रियजयं कुर्याद्, मनःशुद्धया महामतिः। यां विना यमनियमैः, कायक्लेशो वृथा नृणाम् ॥ २३ ॥ आ०-अनिजितेन्द्रियग्रामो, यतो दुःखैः प्रबाध्यते । तस्माजयेदिन्द्रियाणि, सर्वदुःखविमुक्तये ॥२४॥ न चेन्द्रियाणां विजयः, सर्वथैवाप्रवर्तनम । रागद्वेष विमुक्या तु, प्रवृत्तिरपि तञ्जयः ॥२५।। अशक्यो विषयोऽस्प्रष्टु-मिन्द्रियैः स्वसमीपगः। रागद्वेषौ पुनस्तत्र, मतिमान् परिवर्जयेत् ॥२६॥ हताहतानीन्द्रियाणि, सदा संयमयोगिनाम् । अहतानि हितार्थेषु, हतान्यहितवस्तुषु ॥२७॥ जितान्यक्षाणि मोक्षाय, संसारायाऽजितानि तु । तदेतदन्तरं ज्ञात्वा, यद् युक्तं तत् समाचर ॥२८॥ मर्श मृदौ च तूल्यादे-रुपलादेश्च कर्कशे । भव रत्यरती हित्वा, जेता स्पर्शनमिििद्रयम् ॥२९॥ रसे स्वादौ च भक्ष्यादे-रितरस्मिन्नथापि वा। प्रीत्यपीती विमुच्योच्च-जिह्वेन्द्रियजयी भव ॥३०॥ प्राणदेशमनुमाप्ते, शुभे गन्धेऽपरत्र वा। ज्ञात्वा वस्तु परिणाम,घाणेन्द्रियजयं कुरु ॥३१॥ मनोज्ञ रूपमालोक्य, यदि वा तद्विलक्षणम् । त्यजन् हर्षे जुगुप्सां च, जय त्वं चक्षुरिन्द्रियम् ॥३२॥ स्वरे श्रव्ये च वीणादेः, खरोष्टादेश्च दुःश्रवे । रतिं जुगुप्सां च जयन्, श्रोत्रेन्द्रियजयी भव ॥३३॥ कोऽपि | नास्तीह विषयो, मनोज्ञ इतरोऽपि वा । इन्द्रियैर्नोपभुक्त-स्तत्स्वास्थ्यं किं न सेव्यते ? ॥३४॥ शुभा अप्यशुभायन्ते, शुभा. का यन्तेऽशुभा अपि । विषयास्तत् क्त्र रज्येत विरज्येत क्व चेन्द्रियैः ॥३५॥ स एव रुच्यो द्वेष्यो वा, विषयो यदि हेतुतः । Must90484 TAGS

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102