Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 40
________________ ॥३४॥ ॥ ३३ ॥ तथैव श्वश्रवध्वौ ते, चलिते स्वपुरीमभि । उदन्वदुपरि प्राप्ते, यावत्तावद्वधुरव ॥ ३४ ॥ केनापि हेतुना मातः !, काष्ठमद्य महाभरम् । न चळत्यग्रतः शीघ्रं श्वश्ररप्याह तां प्रति ||३५|| अरे ! त्यत्रैतदचैव यच्चैतत् प्रेक्ष्यतेतरत् । गृहाण काष्ठं तद्यावो, यथा शीघ्रं पुरे निजे || ३६ || अथ भीतोऽवदच्छ्रेष्टी मा मां क्षिपतमम्बुधौ । उपलक्ष्य तमन्याऽन्यं, ते ब्रूतस्त्वं क्व रे इह ? ।। ३७ ॥ सुतरां क्रूपिते तस्मा द्विगोपनभयादिमे । सकाष्ठं तं परित्यज्य, तत्र ते गृहमागते ॥ ३८ ॥ अन्यत्राप्युक्तम् — अतिलोभो न कर्त्तव्यो, लोभं नैव परित्यजेत् । अतिलोभाभिभूतात्मा, सागरः सागरेऽपतत् ॥ १ ॥ क्रमेण ज्ञातवृत्तान्तो, भीतस्ताभ्यां सुतोऽपि सः । परिव्रज्यामुपादाय, जातः सुखनिकेतनम् || ३९ || लोभस्याप्येवमाकर्ण्य, विपाकं विबुधा जनाः । संतोषामृतपूरेणाऽऽत्मानं सिञ्चत सर्वदा ।। ४० ।। इन्द्रियविजयः सः कषायजयः इन्द्रियजयेन स्यात् अतः इन्द्रियजयमाह विनेन्द्रियजयं नैव कषायातुमीश्वरः । हन्यते हैमनं जाड्यं न विना ज्वलितानलम् ॥ १ ॥ अदान्तैरिन्द्रियहयै - वलैरपथगामिभिः । आकृष्य नरकारण्ये, जन्तुः सपदि नीयते ॥ २ ॥ इन्द्रियैर्विजितो जन्तुः, कषायैरभिभूयते । वीरैः कृष्टेष्टकः पूर्व, वप्रः कैः कैनं खण्डद्यते ? ॥ ३ ॥

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102