Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
धर्मोपदेश
प्रत्युक्तं--'भोः साधि! बद, जगत्सु को धर्मः श्रेष्ठः? सा प्राह--"जैनाते सर्वेऽप्येकान्तिनः स्याद्वादराद्धान्ताज्ञान न्याय्याः, बहुदोषक्षितत्वात"। इति श्रुत्वा पुनर्नृपः पपछ--'हे शीलसुगन्धे! गंगापयागादितीर्थेषु मध्ये किं तीर्थ तारक ?' सा माह-- 'हे नृप ! अष्टषष्टितीर्थानि लोके सन्ति, तानि न स्वात्मधर्मसमर्थकानि । तीर्थ त्वेकः सिद्धाचल एव । यत्र गिरौ कार्तिक शुक्लपूर्णिमादिने द्राविडवालिखिलौ दशकोटिमुनिभिः सह मुक्तिं गतौ। फाल्गुन शुक्ल दशमीदिने नमिविनम्याख्यौ द्विकोटिमुनिभिः सह सिद्धौ । फाल्गुनशुक्लाष्टमीदिने श्रीयुगादिदेवः नवनवतिपूर्ववारान् यावदत्र समागात् । श्रीशान्तिजिनेनात्र चातुर्मासकं कृतं । तदा सप्तदशकोटिनरा मुनिलिङ्गेन तथा गृहिलिङ्गेन सिद्धाः । तथा च द्वितीयजिन हस्तदीक्षितसाधवः पश्चनवतिसहस्रमिता अत्र वर्षाकाले स्थिताः । तेषु मध्ये कार्तिकशुक्लपूर्णिमादिने दशसहस्रमिताः केवलं प्राप्य सिद्धाः आश्विनशुक्लराकायां पञ्च पाण्डवा विंशतिकोटिव्रतिभिः सह सिद्धाः। फाल्गुनशुक्लत्रयोदशीदिने शाम्बप्रद्युम्नकुमारी सार्वत्रिकोटिमुनिभिः सह सिद्धौ ॥ श्री कालस(कालिक)मुनिः सहस्रसंयमिभिः सह सिद्धः। श्रीसुभद्रमुनिःहै सप्तशतयतिभिः सह सिद्धः श्रीरामचन्द्रः पच्चकोटिभिः सह, श्रीरामभ्राता भरतस्त्रिकोटिभिः सह, श्रीवसुदेवस्य द्वासप्ततिसहस्रखिमध्ये पञ्चत्रिशित्सहनस्त्रियः सिद्धगिरौ मुक्तिं गता ।। सप्तत्रिशत्सहस्रस्त्रियोऽन्यत्र सिद्धि मापुः । देवकीरोहिण्यौ तु आगामिकाले जिनत्वं प्राप्स्यतः। सुकोशलर्षिाघीकृतोपसर्गेण पंगुलगिरौ सिद्धः । इत्याद्यनन्तसाधवोऽत्र सिद्धाः सेत्स्यन्ति च । तथा श्रीचत्रपूर्णिमादिनेत्र गिरौ श्रीपुंडरीकगणभृत् पञ्चकोटिमुनिभिः सह सिद्धः। अतो हे नृप ! समस्ततीर्थयात्राफलं सकृत् शत्रुजयतीर्थे दृष्टे स्यात्" । इति श्रुत्वा नृपादयः सर्वेऽपि श्रीजिनशासनधर्म श्रीसिद्धाचलं तीर्थ
HARELUGU

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102