Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 19
________________ धर्मोपदेश॥१३॥ ************ " यत्र नो स्वजनसंगतिरुच्चैर्यत्र नो लघुलघूनि शिशूनि । यत्र नास्ति गुणगौरवचिन्ता, हन्त तान्यपि गृहाण्यगृहाणि ॥ १।" श्रेष्ठिना भणितं-"भो भद्रे! त्वयोक्तं सत्यं, परं विषयादिसुखनिरपेक्षं मच्चित्तं वर्तते"। तयोक्तं-'स्वामिन् ! सन्ता. नार्थ न दुष्टमिदं । ततः श्रेष्ठी मौनं कृत्वा स्थितः । तया कस्यचिदिभ्यस्य कन्यां गुणसुन्दरीं याचयित्वा परिणायितः । ततः शनैर्जयसेना सपल्या सर्व गृहभारमारोप्य स्वयं धर्माभिमुखी जाता । क्रमेण गुणसुन्दर्याः पुत्रोऽभूत । एकदा । श्रियया निजां सुतां प्रत्युक्तं-'भोः पुत्रि! तव सुखमस्ति ? गुणसुन्दर्या प्रोक्तं--'हे मातः! सपल्युपरि मां दत्वा किं सौख्यं पृष्टसि ? प्रथमं मुंडनं कृत्वा पश्चान्नक्षत्रं पृष्ठसि, जलं पीत्वा गृहं च । ममेषन्मात्रमपि सौख्यं नास्ति । मम मियोऽपि सपल्या रक्तोऽस्ति' । बन्धुश्रियोक्तं--"हे वत्से ! रागेण कलया च तया यदि वृद्धोऽसौ वाह्यते तदाऽपरस्य किं ? । यदुक्तम् वायुना यत्र नीयन्ते कुअराः षष्टिहायनाः। गावस्तत्र न गण्यन्ते मशकेषु च का कथा ॥१॥ तथापि हे पुत्रि! त्वं स्वस्था भव । त्वत्सपत्नीविनाशोपायं करिष्ये । त्वं भर्तुगृहे व्रज"तत एकदा भिक्षार्थमागतं रुद्रमृतिमिव सातिशयं कापालिकं दृष्ट्वा स्वकार्यकरणायानेकरसयुतानं दत्तं तस्मै । यत:-- कार्यार्थी भजते लोको न कश्चित् कस्य चित् मियः । वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम् ॥१॥ सोऽपि नित्यं भिक्षार्थमेति । सा नवनवां भिक्षां ददाति । एकदा प्रत्युपकाराय तामाह-'हे मातर्यत्तव कार्य ** **

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102