Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
॥२४॥
चपेटया ॥१४॥धृत्वा केशेषु दुष्टात्मा, तमुच्चासनसंस्थितम् । पातयामास भूमौ स, किमकृत्यं न पापिनाम् ॥१५॥ झाते व्यकरे तत्र, स आहुतः क्षमाभुजा। भाषितः किमरे मूर्ख !, पण्डितः कुट्टितस्त्वया ॥१६॥ सम्रक्षेपं साभिमानं, भूपं स माह दुर्मतिः। स मनाक् शिक्षितो मिक्षा-चरस्तत्किन्तु दुषणम् ॥१७॥ अन्योऽपि यदि कश्चिन्मां, धिक्कत तादृर्श फलम् । स प्राप्स्यतीति सोल्लण्ठ-मुवाच गतभीतिवत् ॥ १८॥ क्रुद्धेन क्ष्माभुजा धृत्वा, गलेऽसौ कर्षितः पुरान् । बाल-4 इत्याभिया किन्तु, वराको नहि मारितः ॥१९॥ इह लोकेऽप्यहङ्कार-फलमालोक्यतां बुधाः!। वियोगः स्वजनैर्भूपाऽपमानो वनवासिता ॥२०॥ यथा चक्री मनुष्येषु, त्रिदशेषु पुरन्दरः। तथा गुणेषु सर्वेषु, धौरेयी विनयः स्मृतः ।। २१ ।। अथोज्झितकुमारोऽपि, पर्यटन्विकटाटवीः ॥ तापसाश्रममायात-स्तपोधनसमाकुलम् ॥२२॥ असौ पयस्तिकां बद्ध्वा, तेषामग्रे निविष्टवान् । ननाम न शठस्तैर-प्युक्तं मैवमुपाविश ॥२३॥ ततोरुष्टः परित्यज्य, तदाश्रममविश्रमम् । अरण्यानी भ्रमन्नेष, सिंहमेकं व्यलोकत ॥ २४॥ पुच्छमुच्छाल्य, सिंहोऽपि, क्ष्वेडाडम्मरभीषणः । तमभ्यधावत क्रुद्धः, सोऽपि मानी व्यचिन्तयन् । २५॥ आः!क एष पशुः किं वा, नश्यतेऽस्माद्वराकतः । लोका अपि हसिष्यन्ति, मां पशोरपि विभ्यतम् | ॥२६ ।। इत्यहङ्कारतस्तस्मा-दनश्यंस्तेन मारितः । शास्त्रेऽपि श्रुयते हो वं, मणुाण अहियरो ॥ २७॥ स जातो गर्दभरत
स्मात् , करभस्तुरगस्ततः । तत्रैव नगरे भूयः, पुरोहितसुतोऽभवत् ।।२८।। भूत्वापि सर्वविद्यानां, पारगः स मृतस्ततः । | तत्रैव नगरे जातो, डुम्बोऽहङ्कारदोषतः ॥ २९॥ यथा यथा पुरोधास्तं, पश्यत्यस्य तथा तथा । स्नेहः स्याद् दुस्त्यजे येन, स्नेहवरे पुरातने ॥ ३०॥ अन्येद्युस्तत्पुरप्राप्तकेवलज्ञानिनोऽन्तिके । पुरोहितस्तत्स्नेहस्य हेतुं पप्रच्छ सोऽप्यवक ।। ३१ ।।

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102