Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
५४१
एवं व्यवस्थिते लोकव्यवहारे साधनोपक्रमेण यदि विचारयमि, प्रतिजैव तावन्नाङ्गं धारयति । तथाहि । न किञ्चिदस्ति न किञ्चित्सत्यं न किञ्चित्कारकं न किञ्चिविचारसहं न किञ्चित्सालम्बनं न किञ्चिद्दर्शनं न कश्चिसिद्धान्त इत्यादौ स्वार्थप्रतिक्षेपस्तावहरुतरः(१) । प्रतिज्ञापि हि न स्यान्न सत्या न कारिका न विचारसहा, तदिज्ञानमपि न मालम्बनं, तत्फलमपि न दर्शनं, तदर्थोपि न सिद्धान्त इत्यापद्येत ॥
शङ्क • टौ । ननु भवत्वे तादृशो लोकव्यवहारस्तथापि मौगतादिभिरलौकत्वं वा शून्यताया विचारामहत्वादि वा यत् माध्यते तत्र को दोष इत्यत आह । एवमिति । न किञ्चिदस्तोत्यादौ किञ्चित्पदार्थः । प्रतिज्ञापि चेत्तदाह । प्रतिज्ञापि हौति ॥
भगौ• टौ । न किञ्चिदस्तीत्यादिप्रतिज्ञासु हेतवो दृष्टान्ताश्चाग्रे भविष्यन्तोति व्याघातमेवाह । यदि हौति ॥
रघ• टौ । अथ लोकव्यवहारसिद्धपरिकरशद्धेरेव विचारादौहितमम्मदीयं सेस्यतीत्यत आह । एवमिति । न किञ्चिदम्ति जेयत्वात् रज्जमर्पवत् न किञ्चित्मत्यं ज्ञानत्वाद्रज्जुमर्पज्ञानवत्, न किञ्चित्कारकममत्त्वाच्छश विषाणवत्, न किञ्चिद्विचारमहं
(१) दुर्वार इति १ पु० पा० ।
For Private and Personal Use Only