Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
६४०
www.kobatirth.org
"
त्मतत्त्वविवेके मौके
Acharya Shri Kailassagarsuri Gyanmandir
भगो० टी० । तथा स्थूल इत्यर्थः । समुदायः समुदायिभिन्नो न वा । श्रद्ये तस्येति । समुदायस्य अनेकवृत्ते रे कस्य त्वयाऽनङ्गीकारात् श्रङ्गीकारे वा स एवावयवौत्यर्थः । श्रन्त्ये न चेति । परमाणूनां प्रत्येकमिव समुदायस्याप्य स्थूलत्वा दित्यर्थः । नन्वन्योन्यसम्बन्धे सति परमाणूनामेव तावद्देशव्यापिता स्थौल्य स्वादित्याह । न चेति । परमाणूनां प्रत्येकं तस्याप्यसम्भवः, भिवानां च नैकत्वमित्येकः स्थल इति प्रत्यक्षमेतावतापि नोपपादितं प्रत्युत नाना स्थूल इति धीः स्यादित्यर्थः ॥
रघु० टौ० । तथा स्थूलः । तस्य समुदायस्य । समुदितस्थानस्य समुदिताः स्थानमाश्रयो यस्य तस्य । समुदिताः परमाएव एव । तथा स्थूलत्वेन 1 न च निरन्तराणां परमाणूनां नानादिग्देशव्यापितेव स्यौख्यमिति । मा नानादिग्देशव्यापिता ॥
न च भागेष्वेवारोपितेनैकत्वेनेदमुपपत्तिमत्, तदसम्भवात् । न हि करचरणचिबुकनासिकादिपरमाणूनामैक्यं कश्चित् (क्वचिदारोपयति । न च(२) तेषु भेदेन प्रथमानेषु न स्थूलप्रत्ययः । न च तत्त्वे (९) स्फुरत्येव तद्विपरीतातत्त्व समारोपसम्भवः ।
(१) कश्चिदारोपयेत् इति १ पु० पा० ।
(२) न च तेष्वभेदेन प्रथमानेषु स्थूलप्रत्ययः इति २ पु० पा० । (३) परिस्फुरत्येव इति १ ० पा० ।
For Private and Personal Use Only