Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 957
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्ववियेक मटीक वेदान्तोपसंहारः । तत्र हि स्वप्रकाशचिद्रपात्मस्वरूपमेव मुकिरिति प्रतिपादनात् । तनिर्विकल्पकरूपज्ञानं न वाक् विषयो निर्धर्मत्वात् । न मनोविषयोऽजन्यत्वादित्याह। यतो वाच इति। सा चावस्थेति । अात्मनिर्विकल्पक विषयिभावावस्येत्यर्थः । कुत इत्यत आह । मोक्षेति । गोपुरं पुरद्वारं मोक्षनगरप्रवेशद्वारभूतत्वादित्यर्थः । नस्या इति पञ्चमौ तस्याः सकाशानिर्वाणमित्यर्थः । ननु निर्विकन्यकसत्त्वे कथं मुक्तिः, न च तनाशक विरोधिगुणान्तरमम्तीत्यत आह । स्वयमेवेति । न तु विरोधिगुणान्तरात् किन्वदृष्टनाशविशिष्टात् कालात् तन्नाश इत्यर्थः । तदनं वार्तिके कालात्संस्काराद्वेति । न्यायदर्शनोपसंहार दति। यमाश्रित्येति। यामवम्यामनुरुध्य घटादिसत्त्वव्यवस्थापनमारभ्यात्मगोचर निवि झोत्पत्तये प्रमाणप्रमेयादिषोडशपदार्थोपवर्णनम्। अत एवापवर्गचरमकारणात्मतत्त्वसाक्षात्कारकारणनित्यत्वज्ञानविषयत्वं प्रमेयलक्षणमाहुः । नन्वेतादृशाम्योपसंहारम्य मूलं नास्तीत्यत आह । तत्प्रतिपादनार्थमिति। निष्कामो विषयेवलं प्रत्ययवान्। प्रात्मकाम प्रात्मगोचरमननसाक्षात्कारपरः । श्रात्मकामः सन्चातात्मसाक्षात्कारः। ब्रह्मैव सन्-निरञ्जनात्मम्वरूपः सन् ब्रह्मैव समभ्येति-केवलात्मरूपो भवति । केवन्यमासादयतोत्यर्थः । न तस्येति । ततः परं जीवनमरणे तस्य न भवतो न संसरतीत्यर्थः । तत्रैव समवलीयन्ते केवन्नात्मरूपतया व्यवतिष्ठन्ने विलौयन्त इति यावत् । ननु तान्यपि दानान्ये कवाक्यतया व्यवस्थितानि चेत्तदा मुमुक्षभिस्तान्येवोपास्यन्तां किं न्यायदर्शनेनेत्युपसंहरन्नेव शङ्कां निरस्यति । तस्मादिनि । तेषां दर्शनानामुत्थाने परमेकवाक्यता, न तूपसंहारेऽपि, भ्रमेण सिद्धान्ता For Private and Personal Use Only

Loading...

Page Navigation
1 ... 955 956 957 958 959 960 961 962 963 964 965 966