Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 961
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके सटौके अथान्ये ऋषयो मनौषिणः परं कर्मभ्योऽमृतत्वमानशु रिति। तथा न कर्मणा न प्रजया धनेन त्यागेनेके अमृतत्वमानशुः । परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति इति । ध्यानक्रमवणादाकारत्वेनात्मा भासत इत्याह । श्रथाकार इति । श्रुत्या जगतो ब्रह्माभेदस्य बोधनात्तज्ञानमेव मोक्षे हेतुरित्यभिमानस्त्रैदण्डिकानाम्। स्वप्रकाशं ज्ञानमेवात्मा ततोऽन्यस्थाननुभवात्, भेदे विषयविषयिभावस्थासम्भवादित्यभिमानो विज्ञानवादिनाम् । योगाचारो विज्ञानवादी। अतिः “अथात श्रात्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदं सर्वम्” इति “स वा एष एवं पश्यन्नेवं मन्वान एवं विजाननात्मरतिरात्मकौड प्रात्ममिथुन श्रात्मानन्दः स स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवति" इति। अस्य भाष्यम् श्रात्मादेशः प्रात्मैव शुद्धेन केवलेनातिदिश्यत इत्यादेशः। अधस्ताङ्गमौ न तयतिरेकेणान्यदिद्यते, एवमुपरिष्टादित्यादि। इदं चराचरात्मकं सर्वमात्मैव नयतिरेकेणाभावादिति। श्रुतिः “सहोवाच एतदै तदक्षरं गार्गि ब्राह्मणा अभिवदन्यस्थूलमनणु अस्वमदीर्घमलो हितमस्नेहमच्छायमतमोऽवायु अनाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणमसुखममात्रमनन्तरमबाह्यं न तदभाति किञ्चन न तदनाति कश्चन" इति। अस्य भाव्यं एतदै तदक्षरं यत्पृष्टवत्यसि । हे गार्गि। कस्मिन्नु खलु श्राकाश श्रोतश्च प्रोतश्चेति। किन्तत् अक्षरं न क्षरति नक्षीयते वा अक्षरं ब्राह्मणा ब्रह्मविदोऽभिवदन्ति स्थूलाद्यन्यत्वेन निर्धर्मकमेकरसं वस्तु प्रतिपाद्यते । वेदान्तेति । अदितीयसच्चिदानन्दात्मकब्रह्मबोधिकानामुपनिषदां प्रपञ्चमिथ्यात्वस्य सिद्धा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 959 960 961 962 963 964 965 966