Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४६
आत्मतत्त्वविवेके सटीके
तेर्निर्धर्मकात्मकचिन्तन एव तात्पर्यमिति भावः । तत इत्यादि । यद्यपि संस्काराभिभवेऽपि पूर्वविशिष्टज्ञानोपस्थितविशेषणविशिष्टविषयकमेव ज्ञानान्तरमुत्पत्तुमर्हति तथापि ध्यानपरिपाककाष्ठावादात्मविषयकं निर्विकल्पकमेवोत्पद्यते, प्रमाणं चाऽत्र श्रुतिरेवेति भावः । चरमेति । शुद्धस्वप्रकाशचित्स्वरूपब्रह्मप्रतिपादकवेदान्तानामुपसंहारः प्रतिपाद्यान्तरविरहात् । यत इति । वचसो ध्यानपरिपाककाष्ठाविरहदशायां च मनसो धर्मपुरस्कारप्रवृत्तिकस्य निर्धात्मबोधनक्षमताविरहादिति। तस्या इति पञ्चमौ। निर्वाणमपवर्गः । स्वयं भोगेनादृष्टक्षयादित्यर्थ इत्येके । तस्या निर्वाणं विनाशः । स्वयं कालविशेषसहकृतात्तत एवेत्यर्थ इत्यन्ये ॥ ॥
इति महामहोपाध्यायीमद्भट्टाचार्यशिरोमणिविरचित
आत्मतत्त्वविवेकभावप्रकाशः सम्पूर्ण :(१) ॥
(१) Post-colophon statement (?) :शुभमस्तु शकाब्दाः १५३८ समये व्यापाढशुक्लचतुर्दश्यां
भौमे संवत् १६७२ ॥ श्रीः ॥ नमो नलिननेत्राय वेणवाद्यविनोदिने । राधाधरसुधापानशालिने वनमालिने ।
श्रीरामः शरगाम् ॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 961 962 963 964 965 966