Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 960
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः। ८४३ स्तादात्म्यं यस्य तादृशं श्रात्मानम् । भवस्य संसारस्थ । उच्छित्त्य उच्छेदकारणाय साक्षात्काराय। उपासौत निरन्तरं ध्यायेत् । श्रद्धा फलावश्यम्भावनिधयः । शमः-इन्द्रियजयः, दमः-केशसहिष्णुता । विरामो-वैराग्यं, अतिचञ्चलत्वेन मनसो निरन्तरमात्मध्यानमशक्यमत्राह। चित्तेति। चित्तस्य मनसः प्रणिधये बहिर्विषयादाकव्य अात्मनि स्थापनाय विहितैर्योगविधिभिर्योगशास्त्रोक्रः प्रकाररासनप्राणायामादिभिः तैरात्मनि मनः स्थिरौहत्य तं ध्यायेदित्यर्थः । इदानौं ध्यानक्रमं दर्शयन्नेव तदाभासानां यथायोगं विषयभेदसुत्थानबोज चाह। उपास्यमान इत्यादिना । प्रथममित्यादि । बुभुक्षुतादशायां ग्रामपशुहिरण्यादौनां निरन्तरमभ्यर्थमानत्वेन समुत्कटवासनावशात् प्रथमं त एव भासन्त इत्यर्थः । कर्मेति । तस्थाः कर्मकाण्डविचार एव प्रवृत्तत्वात् न तु ब्रह्मविचार इति भावः। अन्तरात्मनो दर्शनविरहेणासत्त्वमिति शानिराकरणपरायाः श्रुतेरर्थस्य तदसत्त्वपरत्वकल्पनमपि तन्मतोत्थानबौजमिति प्रतिपादयितमाह । तदित्यादि । पराचि खानि व्यटणस्वयम्भूस्तस्मात्पराङ् पश्यति नान्तरात्मन् । कश्चिद्धौरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वामिच्छन् इति । स्वयम्भूब्रह्या खानि इन्द्रियाणि व्यटणत् हिंसितवान् पराधि पराक्प्रवणानि कृतवान् तस्मानौवः पराङ पराचो बाह्यानर्थान् पश्यति मान्तरात्मन् नान्तरात्मानं धौरः साधनसम्पन्नः श्रावृत्तपः बाह्यार्थव्यावर्तितेन्द्रियग्रामः प्रत्यगात्मानं अन्तरात्मानं अमृतत्वं मोक्षं । श्रुतिः कर्मणा मृत्युमुषयो निषेदुः प्रजावन्तो द्रविणमौहमानाः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 958 959 960 961 962 963 964 965 966