Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
व्यसृजत् स्वयंभूस्तस्मात् परान् पश्यति नान्तरात्मन्” इति । यस्मात् स्वयम्भः खानौन्द्रियाणि पराचि पर तात्मदर्शन]मात्रदर्शनफलान्यसृजत् । नात्मदर्शनफलानौति । तस्मान्त्रात्मा द्रष्टव्य इत्यभिमान इत्यर्थः । नन्वेतावता चार्वाकमतमेवायातमत शाह । तद्धामायेति ।
कर्मभिर्मत्युमृषयो निषेदुः प्रजावन्तो द्रविणमौहमानाः । अथापरे मनौषिणः परं कर्मभ्यो अमृतत्वमानशुः ।
अत्र हि परं कर्मभ्य इत्यनेन कर्मपरतां निरस्थात्मपरतव दर्शिता। पूर्वमात्मा न भासत इत्युक्रमिदानौमाकार आत्मा भासत इत्युच्यते । प्रथाकार इति । श्रात्मा भासत इत्यर्थः । भास्करीया हि त्रिदण्डिन श्रात्मैवेदं सर्वं ब्रह्मवेदं सर्वमिति खमतमुपसंहतवन्तः ज्ञानभिन्नं वस्तु नास्त्येवेति ब्रह्मपदेन ज्ञानमेवोक्रमिति व्यामोहनाय स्वगुरुणा योगाचारमतोत्थापनं कृतम् । ननु व्यासवृहस्पत्योरत्र कौदृशो वेदभागो मूलमित्यत आह । श्रात्मैवेदं सर्वमिति । इदं नामरूपस्कन्धपञ्चात्मकं विश्वमात्मैव तत्राऽऽत्मपदं ज्ञानपरतया ग्रहौवा योगाचारो व्यामोहितः । श्रात्मैव तत्त्वतो ध्येय इत्युपचारमाश्रित्य त्रिदण्डिमतमुपसंहृतं व्यासेन । मनु तर्हि सिद्धं योगाचारमतमत पाह। तद्धानार्थमिति। अगन्धमित्यादिना पारमार्थिकगन्धान्योन्याभाववत्तयात्मनः प्रतिपादनात्। अथार्थाभाव इति भासते इत्यनुषङ्गेन सम्बन्धः । यमाश्रित्येति । त्रिदण्डमतेऽप्यर्थप्रत्ययः खौक्रियते किन्तु ब्रह्मपरिणामत्वेन प्रपञ्चमिथ्यात्ववादिभिस्त्वर्थो नाङ्गीक्रियत एव। द्वारमात्रेति। अर्थाभावे सिद्धे तद्द्वारिका दैतसिद्धिरित्यर्थः । प्रपञ्चमिथ्यात्वदर्शनादेवात्मनोऽपि प्रपञ्चान्तर्गत
For Private and Personal Use Only
Loading... Page Navigation 1 ... 953 954 955 956 957 958 959 960 961 962 963 964 965 966