Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
आत्मतत्त्वविवेके मटौक
दे विद्ये वेदितव्ये तु शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ द्वे ब्रह्मणो वेदितव्ये परं चापरमेव च । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ इत्येताभ्यामपि श्रुतिस्मृतिभ्यां परब्रह्मतबोधकागमतत्त्वज्ञानस्य न तु कुतोऽप्यागमात् स्वात्मतत्त्वज्ञानस्य । तथापि मोक्षे जनकस्य खात्मगोचरमिथ्याज्ञानवासनासमुच्छेदस्य स्वात्मसाक्षात्कारादेवोत्पातात् तद्वारा तस्थापि मोचहेतुत्वमिति वदन्ति ।।
तदसङ्गतं । यदि तत्त्वज्ञानादचिरेणैव मोक्षो यदि वा कर्मणां भोगेन क्षयानुभयथापि वासनोच्छेदस्य मोक्षजनकल्वे मानाभावात् । भोगेन कर्मक्षयार्थं विहितनिषिद्धयोः प्रवर्तमानस्य धर्माधर्मानुत्पत्तावुपयुज्यते वासनोच्छेद इति चेदपयुज्यतां । नचैतावता मोक्षजनकतासिद्धिः।
तत्त्वज्ञानवतो धर्माधर्मयोः प्रागभावस्य सत्त्वे तयोरुत्पादो दर्वारः । असत्वे तु तदभावादेव नोत्पाद इत्यपि केचित् ।
वस्तुतस्तु “ न वा अरे पत्यः कामाय पतिः प्रियो भवति, प्रात्मनस्तु कामाय पतिः प्रियो भवति" इत्यादिना ईश्वरासम्भविप्रियत्वाख्यानेन जीवात्मानमुपक्रम्य “श्रात्मा वा अरे द्रष्टव्यः " इत्यादिप्रतिपत्तिचतुष्कं विधाय "एतावदरे खल्वमृतत्वम्" इत्युक्त फलावश्यंभावद्योतनाय कारणे कार्योपचारादर्शनादिरेवामृतत्वमित्युक्तं अतः अतित एव स्वात्मज्ञानस्य मोक्षहेतुतासिद्धिः । यच्च तत्र तत्र तस्मिन् विज्ञाते सर्वमिदं विज्ञातं भवतीति तदात्मसाक्षात्कारात् सार्वज्यं स्यादिति बोधनाय । यदपि तदनन्तरं "एतस्यैव महतो
For Private and Personal Use Only
Loading... Page Navigation 1 ... 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966