Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 941
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२४ आत्मतत्त्वविवेके सटीके प्रतियोगौति। न हि निष्पतियोगिकोऽभावो नामेत्यर्थः । उपाधौति । जन्यस्य विनाशित्वे भावत्वस्यैवोपाधित्वादित्यर्थः । ननु ध्वंस एव नित्यज्ञाननित्यसुखयोः सम्बन्धोऽस्तु स च न विनामौत्यत पाह। अविद्येति । एकविंशतिप्रभेदभिन्नदुःखात्मिका चेदविद्या तदा तदिध्वंसस्य पुरुषार्थत्वमस्मदभिमतमेवेत्याह। न हौति । नित्ये ज्ञाने सुखे च प्रमाणमेव नास्ति योग्यानुपलब्धिनिरस्तत्वादित्युतमिति भावः। दुरन्तं चैतदिति। न नित्यसुखकाम्यत्वमित्यर्थः । अत्र हेतुमाह। तदभिसन्धेरिति । नित्यसुखाभिलाषिणे वैषयिकसुखेऽप्यभिलाषः स्यात् । स च मोक्षविरोधीत्यर्थः । उत्कृष्टाभिलाषे तदप्राप्तावपशष्टाभिलाषे दृष्टान्तमाह । अलाभेति । रघु० टी० । नित्यं सुखं मोक्ष इति पदं दूषयति । नित्यन्विति । भ्रान्तरिति । यथा कण्ठस्थचामौकरमसत्त्वभ्रमण काम्यं तथैतदपौत्यर्थः । स्वसंवेद्य इति । स्वस्मिन् सति अवश्यं संवेद्ये सतः सुखस्य क्वचिदप्यनुपलम्भादर्शनेन तत्मत्त्वे मनोयोगादिसत्त्वेनावश्यं तत्माक्षात्कारात् प्रतिबन्धकाभावादित्यर्थः । वेदान्तिनान्तु तदेव स्वप्रकाशविज्ञानरूपं, सत्यं विज्ञानमानन्दं ब्रह्मत्यादिश्रुतेः । शक्यं कृतिकर्म । निर्वृत्तिरुत्पत्तिः । पूर्वरूपपरित्यागेन रूपान्तरप्राप्तिविकारः। पूर्वरूपाविरोधेन रूपान्तरलाभः संस्कारः। प्राप्तिः सम्बन्धः । सुखस्य नित्यत्वेऽपि प्रात्मत्वादिवत्तस्याप्यात्मनि नित्यसम्बन्धवत्त्वात् । वेदान्तिमा पुनरात्मना सबै सुखस्य सम्बन्धस्तादात्म्यमेव स्यात्तच्च नित्यमेव । नित्यं सुखं स्वतोऽशक्यमपि साक्षात् क्रियमाणतया शक्य तथैव च काम्यं प्रज्ञायमानस्य सुखस्याकाम्यत्वादिति मनं निरस्यति । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966