Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२८
आत्मतत्त्वविवेके मटौके
दुःस्वरायोक्त्यादे तद्विनाशस्यावश्यकत्वात् । नाप्यसौ तत्त्वज्ञानसाध्यः । कृप्तादेव दुरिताद्दुःखम्य भोगाच्च तद्विनाशम्य सम्भवात् ताभ्यां च विना तत्वज्ञानसहस्रेणापि तयोरुत्पादयितुमशक्यत्वात् । ममानाधिकार दःखासमानकालीनदुःखध्वंसत्वं च न जन्यतावच्छेदक मानाभावात् । अन्यथा शुकादिदुःखासमानकालौनदुःखध्वंसवादिना मैत्राममानकालीनघटत्वादिना च जन्यताप्रसङ्गात्। सत्यां मिथ्याज्ञालवामनायां प्रवर्तमानस्यापूर्वधर्माधर्मसञ्चये संसारानुच्छेदप्रसङ्ग इति चेत् । एतावता तत्त्वज्ञानस्य तादृशवासनाविनाशदारा धर्माधर्मानुत्पादप्रयोजकत्वं स्यान्न तादृशदुःखध्वंसजनकत्वं, दुःखजन्मेत्यादिकं सूत्रं कारणाभावे कार्योत्पादाभावस्यैव बोधकं, उत्पन्नयोस्तु धर्माधर्मयोराहत्य तत्त्वज्ञानादिनाशो भोगद्वारा वेत्यन्यदेतत् । नापि दुःखात्यन्ताभावः, तस्यासाध्यत्वात् । सिद्धोऽपि ग्रामपशुहिरण्यादिवत् स्वसम्बन्धित्वेन साध्यः सम्बन्धः तस्यात्यन्तिको दुःखध्वंस इति चेत् । न । प्राप्ताप्राप्तविवेकेनात्यन्तदःखध्वंस एव साध्यत्वपर्यवसानात् । तस्य चापुरुषार्थतायाः प्रतिपादितत्वात् । न वा तस्य तत्सम्बन्धत्वे मानमस्ति । अस्ति दुःखेनात्यन्तं विमुक्तश्चरतौति श्रुतिरिति चेत् । न । तस्यास्तथात्वाबोधकत्वात् । संसारिणामपि सुषुण्यादौ व्यापकदुःखात्यन्ताभाववत्त्वाच्च तस्मादात्यन्तिको दुःखसाधनध्वंस एव मोक्षः । दुःखस्य साधनं चेह तन्निदानं दरितं, प्रात्यन्तिकत्वं च तसस्ट स्वप्रतियोगिसमवायिवृत्तिद रिताधिकरणक्षणात्तित्वं । श्रथ दुःखसाधनध्वंसो न स्वतः पुरुषार्थः, दुःखप्रागभावमुद्दिश्यैवाहिकण्टकनाशादौ प्रायश्चित्तादौ च प्रवः। न च मुक्तस्य दःखप्रागभावसम्भवः, तस्य नाश्यत्वे दुःखोत्पत्तिमात्, अनाश्यत्वे प्रागभावत्वविरोधात् ।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966