Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्मवाटः ।
६२६
प्रतियोग्यनुपपत्तेश्चेति चेत् । न । प्रागभावस्थासाध्यत्वात् । तस्योत्तरकालसम्बन्धः साध्य इति चेत् । न । सम्बन्धिद्वयातिरिक्तस्य तम्यानभ्युपगमात् । सम्बन्धिनश्चकम्यासाध्यत्वात् । अन्यस्य च खकारणाधीनत्वात् कण्टकादिनाशस्य तबाम्बन्धजनकत्वे मानाभावात् । प्रागपि नसत्त्वात । तत्मत्त्वेऽग्रिमक्षणे सत्त्वं तेन विनाऽपि चाग्रिमक्षणेऽवसमत्त्वमित्यरूपमेव योगक्षेममाधारणं तत्माध्यत्वं प्रवृत्त्याधुपयुकामति चेत् । न । मानाभावात् । पूर्वकालव्यावर्तकम्याग्रिमत्वावधेर्दर्वचत्वात्। सत्यप्यहिकण्टकादौ चिरकालं दुःखानुत्पाददर्शनात् । एकदा सकलकर्मणां वृत्तिलामासम्भवेन विनापि प्रायश्चित्तं दुःखप्रागभावसातिचिरं सत्त्वसम्भवाच्छ । तदुक्कं
जाभुतं शौयते कर्म कल्पकोटिशतैरपि' इति । सुखदःखाभाक्तत्साधनान्यत्वेग दुरितनाशः कथं पुरुषार्थ इति चेत् । यथा हि सुखत्वेष्टसाधनत्वे इच्छायाः, दुःखत्वानिष्टसाधनत्वे च द्वेषस्य प्रयोजके, तथा द्विष्टाभावत्वेष्टाभावत्वे अपि दूच्छाद्वेषयोः । अत एव यस्य यत्र दुःखे देषः तस्यैव तदभावे इच्छा, यस्य यत्र सुखे इच्छा तस्यैव तदभावे देष इति सर्वानुभवसिद्धं यथा चेच्छां प्रति स्वरूपयोग्यताज्ञानमेव कारणं फलानुपधाननिर्णयस्तु प्रतिबन्धकस्तथैव द्वेषं प्रत्यपि । संशयनिश्चयसाधारणं फलोपधायकत्वज्ञानं वा तथा । विशिष्टश्च दुरितध्वंसो भवत्यद्देश्यो जन्यते च तत्त्वज्ञानेन । तत्त्वं तु जन्यतावच्छेदकं न वेत्यन्यदेतत् ।
स्थादेतत् प्रचौर्णप्रायश्चित्तानां दुरितानां विना भोगं नाश-. यितुमशक्यत्वात् तदवस्यैवापुरुषार्थता इति चेत् । न। कर्मनाशापारगमनादिवत् प्रायश्चित्तादिवच्च तत्त्वज्ञानस्यापि धर्मा
117
For Private and Personal Use Only
Loading... Page Navigation 1 ... 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966