Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
साक्षाकारान्यत्वमपि विनाशित्वावच्छेदककोटौ। सन्तु वा अनन्ना एव शरोरतत्त्वज्ञानसुखसाक्षात्कारसन्तानाः वैषयिकादिसुखविमुखानामेव च मोक्षऽधिकारान्नानर्थवासनाममुत्थानम् । श्रारौरमित्यादिश्रुतेस्तु प्रारौरम्य सुखं दुःखं च नोत्पद्यते । नित्यसुखसम्बन्धम्य निषेद्धमशक्यत्वादिति प्राहुः ।
अानन्दस्य प्रतिष्ठितत्वं सर्वानन्दान्तरातिशायित्वं। तथा चानन्ना एव गरौरतत्त्वज्ञानसर्वा विशायिमुखतत्माक्षात्कारसन्ताना इत्यन्ये ।
स्यादेतत् , आत्मा तु किं स्वप्रकाशसुखस्वभावोऽन्यथा वेति पृच्छामः । श्राद्धोऽमि चेदपनिषदःपृच्छ । मध्यस्थोऽसि चेत् , अनुभवं पृच्छ। नैयायिकोऽसि चेत् न वैषयिकसुखज्ञानस्वभाव इति निश्चिनुयाः। तदतिरिक्त तु सुखज्ञानव्यवहारे बौजाभावात् तद्यवहाराभावः अनुग्रहाभिष्ठङ्गन्द्रियप्रसादादिलक्षणं हि कार्य तद्यवहारबौज, अर्थप्रवणत्वं स्मतिसंस्कारादिकार्य ज्ञानव्यवहारादिबोज लोके, तयोश्चाभाव आत्मनौति ।
शङ्क० टौ. । सुहृद्भावेन पृच्छति । प्रात्मेति । प्रतिभावबलेन नित्यसुखस्वाभाव्ये त्वया निरस्तेऽपि न मम संशयोच्छेद इति भावः । श्राद्ध इति । श्रद्धावानसि चेदित्यर्थः । उपनिषत्सु ज्ञानसुखभिन्नत्वेनैवात्मनः प्रतिपाद्यत्वात् । यत्रोपनिषदि सुखस्वाभाव्यप्रतिपादनं (१)तत्र तदपनिषदि चाऽन्यार्थम्य दर्शितत्वादिति
(१) तदुपचरितार्थम्येति २ पु० या० ।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966