Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 952
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः । ज्ञानसुखाभ्यामभेदे न श्रुतेस्तात्पर्य । परमात्मनि तु सार्वच्यजगस्कर्टत्वादिशालितया न्यायागमाभ्यां सिद्धे विज्ञानमानन्दं ब्रह्म, भानन्दो ब्रह्मत्यादिकाः श्रुतयो मुख्यार्थबाधात् नित्यज्ञानानन्दवत्त्वं बोधयन्ति । तत्र च न विप्रतिपद्यामहे इति । तस्मात् श्रुतेः श्रुत्वाऽऽत्मानं तदनु समनुक्रान्तवपुषो विनिश्चित्य न्यायादथ विहतहेयव्यतिकरम् । उपासौत श्रद्धाशमदमविरामैकविभवो भवोच्छित्यै चित्तप्रणिधिविहितैोगविधिभिः ॥ उपास्यमाने च तस्मिन् प्रथमं बहिरा एव भासन्ते यानाश्रित्य कर्ममौमांसोपसंहारः चार्वाकसमुत्थानं च, तत्प्रतिपादनार्थं च पराश्चि खानौत्यादि। तहानाय परं कर्मभ्य इत्यादि। अथार्थाकारः, यमाश्रित्य चैदण्डिकसतोपसंहारः, योगाचारसमुत्थानं च तत्प्रतिपादनार्थमात्मैवेदं सर्वमित्यादि तहानार्थमगन्धमरसमित्यादि। अथार्थाभावः यमाश्रित्य वेदान्तद्वारमात्रोपसंहारः शून्यनैरात्म्यसमुत्यानं च तत्प्रतिपादनार्थमसदेवेदमग्र आसौदित्यादि तड्डानार्थमन्धंतमः प्रविशन्ति ये के चात्महनो जना इत्यादि। ततो विवेकं यमाश्रित्य सांख्यमतोपसंहारः शक्तिसत्त्वसमुत्थानं च तत् प्रतिपादनार्थ प्रकृतेः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966