Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 874
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः। ८५७ अपनेयेति । अपनेयम्त्याज्यो वृक्षादिः । अपगन्ता खगादिः । नदवधित्वात् । विभागावधित्वात्(१) । स्वभिन्नकर्टकत्यागजन्यविभागाश्रय एव च विभागावधिः, अपादानञ्च त्यकरि खगादाववध्या दिव्यवहारविरहात् । करणीभूतेति । करणीभूतेन कर्मणा उपहितं कर्मण: करणोपहितत्वात् करणस्य कर्बुपहितत्वात्तदुपहितस्य संप्रदेयस्य कर्दघटितत्वमिति भावः । तदभिप्रेयत्वात् । तेन कर्मणा देयद्रव्येन दातुरभिप्रेतत्वात् । तया च पाणिनिमूत्रम् । कर्मणा यमभिप्रेति स सम्प्रदानमिति । अत्र कर्मणेति हतौयया करणत्वं प्रत्याय्यते । त्यकुम्त्यज्यमानस्वत्वभागित्वेनोद्देश्यत्वमपि चेतनोपहितमेव त्यागविशेषश्चात्र ग्राह्यः, क्रेतरि सम्प्रदानव्यवहारविरहात् । तद्व्याप्यत्वात् तझ्यापारविषयत्वात् । साक्षादिति, कर्मव्यवच्छेदाय । ननु साक्षात्कर्तव्यापार्य करणं करणयाप्यं कर्म कर्मप्रयोजकश्च कति चक्रकं, एवं माक्षात्कर्तव्यापायं करणं करणप्रयोका च कर्तेति अन्योन्याश्रय इत्यत आह । ज्ञानचिकौर्षत्यादि । ननु ज्ञानादिमतः कार्यमा प्रति जनकत्वस्यामिद्धौ तहटितमूर्तिकस्य कारकविशेषस्थापि न तथात्वं सर्व च कारकं न चेतनोपहितं, तथाहि परम्परया क्रियाश्रयत्वमधिकरणत्वम् । परकौयक्रियाजन्यविभागाश्रयत्वमेवापादानत्वम् । अत एव वृक्षात् पर्ण पततोत्यादावपि वृक्षादेरपादानत्वं विभागावधित्वमेवापादानत्वं अवधित्वं च सम्बन्धविशेषः स च क्वचिदेवानुभवबलादित्यपि केचित् । (१) तादृश विभागावधित्वादिति २।३ पु० प० । 18 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966