Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
केचित प्राणिनां कर्मणामनन्तत्वात्कथं युगपहृत्तिनिरोध इत्यत आह । कर्मणामिति । एवम्वभावत्वात्-अनन्तत्वेऽपि सुषुप्तिवत् कदाचिन्निरुद्धवृत्तिकम्वभावत्वात् । एतदर्थ कर्मणां वृत्तिलाभयुगपहृत्तिनिरोधख्यापनार्थमित्याः ।
यद्यप्यपदर्शितानुमानमप्रयोजकं, गगनादिवृतिध्वंसप्रतियोग्यउत्तिद्रव्यत्वं कार्यद्रव्यानधिकरणप्रागभावाधिकरणवृत्तिध्वंसप्रतियोगित्ति इदानीन्तनकार्यसमवेतत्वात्, अनादितावच्छेदकत्वाद्वा । गगनादिवृत्तिप्रागभावाप्रतियोग्ययं घटः कार्यद्रव्यानधिकरणवृत्तिप्रागभावप्रतियोगी कार्यत्वात् सुखादिवदित्यादिकमपि तथा । तथापि मर्गप्रलयबोधकागमानुरुद्धृत्वान्न दोषः । ननु सर्गादावौश्वरेण प्रणीतानां वेदानां तदानौं महाजनविरहेण (१)क्व परि-- ग्रहावसर इत्यागङ्गां निरम्य नपसंहरति । तम्मा दिति ।
तदैवं कथं मन्वादिभिः परिगृह्यन्तां वेदा इति चेत् ! आयुर्वेदवदाप्तोक्तत्वनिश्चयात् । स एव कुत इति चेत् ! अध्यक्षतः, तेषामप्यतीन्द्रियार्थदर्शित्वात् । तादृशां तेषां तत्परिग्रहेण किं प्रयोजनमिति चेत् ! अम्मद्यवहारेणास्मदपत्यादि व्युत्पद्यताम्, तथा च धर्मसंप्रदायः प्रवर्ततामिति भूतदया, स्वाधिकारसम्पादनं च।
अथवा मर्गान्तरगृहीतव्याप्तिप्रादुर्भावे सुप्तप्रति
(१) कुत इति १ पु० पा० ।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966