Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 931
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रात्मतत्त्वविवेके मौके निवृत्ती फलम् । न तु भूतार्थम्य तत्फलमित्याह । किमिति । किं तेनेति । निष्प्रयोजनकप्रतिपत्तिजनकम्य रथ्यापुरुषवाक्यवदनादेयत्वादिति भावः । प्रयोजनमाह । यथायथमिति। वायुर्वै क्षेपिष्ठा देवतेत्यादौनामुपादानं फलम् । अन्धं तमः प्रविशन्ति ये के चात्महनो जना इत्यादौनां हानं फलम् । उपनिषड्भागस्य च मोक्षःफल मित्यर्थः । रघु० टी० । श्राद्यव्युत्पत्ती व्यवहारात् कार्यान्विते शब्दानां शक्त्यवधारणात् सिद्धार्थानामनुभावकत्वमेव नास्ति दूरे तद्विशेषप्रमाणत्वमित्याशयेनाशङ्कते। कथमिति। चरमो नियमः । पदार्थमात्रात्यैव कार्यताबोधकशब्दममभिव्याहारादिवशात् कार्यान्वितबोधजनकत्वोपपत्तौ न विशिष्टशकिकल्पनमित्याशयेन शङ्कां निरस्यति । महाजनेत्यादि। कर्तव्यत्वाद्यबोधकम्य सिद्धार्थस्य न प्रवर्तकवादिसम्भव इत्याशयेन पृच्छति । किमिति। उत्तरयति । स्वार्थति। सर्वस्य सिद्धार्थस्य माक्षात् स्वार्थप्रतिपादनं फलं तद्वारा च यथायथमुपादानादि। “सर्व पाभानं तरति”, “तरति ब्रह्महत्यां योऽश्वमेधेन यजत" इत्यादेरुपादानं, “ अन्धं तमः प्रविशन्ति ये के चात्महनो जना” इत्यादेश्च हानं, आत्मोपनिषदां च मोक्षः । तासां च तात्पर्यनिर्णायनेन न्यायाः साहायकमाश्रयन्ते। तत्त्वज्ञानादिति च सर्वत्र सम्बयते। दृष्टानिष्टसाधनत्वज्ञानयोः प्रवर्तकत्वनिवर्तकत्वे लोकतः सिद्धे आत्मतत्त्वज्ञानस्य मोक्षहेतुत्वं तमेव विदित्वातिमृत्यमेतत्यादेः, आत्मा वा अरे मैत्रेयि द्रष्टव्यः श्रोतव्य इत्यादेश्च वेदरागेरिति । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966