Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०
Acharya Shri Kailassagarsuri Gyanmandir
ग्रात्मतत्त्वविवेके सटीके
रित्यर्थः । उपलब्धीति । (१) यावद्दुः खनिवृत्तिरूपलब्धियोग्या तत्रैव वेद्यत्वान्तर्भावेण amarन्तर्भावेण पुरुषार्थत्वं नान्यत्रेत्यर्थः । समव्यय फलत्वमाशङ्कय निराकरोति । दुःखवदिति । तथा च यथा तृष्णया दोषं तिरस्कृत्य श्रगम्यागमनादौ प्रवृत्तिः तथा विरक्तस्य (२) गुणं तिरस्कृत्यापि निवृत्तिरित्यर्थः । तृष्णेति । केचनेति । दुःखद् र्द्विनभौरव इत्यर्थः । प्रकारान्तरेण समव्ययफलत्वं निरस्यति । न चेति । न हि दुःखे सुखहेत्वनुषङ्ग श्रावश्यक: नरकदुःखादौ सुखलेशाभावात् सुखे तु दुःखहेत्वनुषङ्गभौव्यम् । एतदेव उपपादयति । तथा हौति । न्यायार्जितधनमत्यन्तन्दुःखहेतुस्तचापि सुखमन्यौयं एतद्धनार्जनपरिपालनदुःखं तु महौय इत्यर्थः । (२) न्यायार्जिते वैहिकं पारलौकिकं चात्यन्तिकं दुःखमित्याह । अन्यायेति । साम्याभावमेव पुनराह | विदाङ्कुर्वन्विति । विविषयेति । दुःखं होयतां सुखमुपादीयतामित्यपि न सम्भवति । (४) परस्परानुषङ्गादित्यर्थः ।
शक्यत्वं निराकरोति । शक्यश्चायमिति । दुःखात्यन्ताभावो विशिष्टदुःखसाधनध्वंससम्बन्धोत्पादनद्वारा साध्यस्तादृशदुःखध्वंसश्च स्वत एव साध्यो यदि च दुःखप्रागभाव एव मुक्तिस्तदा सोऽपि कारण विघटनमुखेन साध्य दूत्यर्थः । दुरन्तत्वं परिहरति ।
(१) या दुःखनिवृत्तिरिति २ पु० पा० ।
(२) विषयजन्यगुणमिति २ पु० पा० ।
(३) व्यन्यायादैहिकमिति ? पु० पा० ।
(४) परस्परप्रसङ्गादिति १ पु० परम्परानुषङ्गादिति २५० पा० ।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966