Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 936
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अनुपलम्भवादः । Acharya Shri Kailassagarsuri Gyanmandir ६८ अन्तश्चेति । न तक्षकचूडाहरणवद्दुरन्त इत्यर्थः । अन्तत्वे हेतुमाह । अपरावृत्तेरिति । पुनर्दुःखानुत्पत्तेरित्यर्थः । रघु० टौ० । दुःखस्य निवृत्तिध्वंसः तस्यात्यन्तिकलं सदातनत्वसम्भवि श्रविनाशित्वं च साधारणमित्याशयेन पृच्छति । किमिति । उत्तरयति । तज्जातौयेति । श्रत्यन्तं यावत् सत्त्वमभावविशिष्टत्वं भाववैशिष्याभावः । प्रतियोगिजातीयाधिकर णक्षणावृत्तित्वमिति यावत् । श्रथेदानीन्तनमुक्रावव्याप्तिरत उतमात्मन इत्यादि, तथा च (१) स्वाधिकरणत्मवृत्तिदुःखाधिकरणक्षणावृत्तिः स्वाश्रयसमवेतदुःखाधिकरण क्षणवृत्तिभिन्नो वा दुःखध्वंसो मोन इति पर्यवसितोऽर्थः । केचित्तु यद्यपि दुःखात्यन्ताभाववत्त्वं अवच्छेदभेदेन दुःखसत्त्वेऽपि सुषुप्तौ स्वर्गित्वे चाऽस्ति तथापि चरमदुःखध्वंसादिप्रत्यासत्त्या स्वौयदुःखतत्प्रागभावानधिकरणकालावच्छेदेन वा तद्वत्त्वं तथेति प्राहुः । नवेद्यत्वादिति । यदाज: दुःखाभावोऽपि नावेद्यः पुरुषार्थतयेय्यते । स्वरूपत एव न हि मूर्द्धाद्यवस्थार्थं प्रवृत्तो दृश्यते सुधीः ॥ इति दुःखम्य निसर्गप्रतिकूल स्वभावतया तदभावस्य काम्यत्वमित्याह । दुःखार्तानामिति । किमत्रेति । विवेकिनामपि दुःखार्तानां सुषुप्तिका मनायाः प्रामाणिकत्वादित्यपि द्रष्टव्यम् । तर्हि विवेकिनोऽपि दुःखार्ता निषिद्धमपि देहत्यागमाचरेयुरित्यत आह । (१) स्वाश्रयसमवेतेति १५० पा० । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966