________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
६८
अन्तश्चेति । न तक्षकचूडाहरणवद्दुरन्त इत्यर्थः । अन्तत्वे हेतुमाह । अपरावृत्तेरिति । पुनर्दुःखानुत्पत्तेरित्यर्थः ।
रघु० टौ० । दुःखस्य निवृत्तिध्वंसः तस्यात्यन्तिकलं सदातनत्वसम्भवि श्रविनाशित्वं च साधारणमित्याशयेन पृच्छति । किमिति । उत्तरयति । तज्जातौयेति । श्रत्यन्तं यावत् सत्त्वमभावविशिष्टत्वं भाववैशिष्याभावः । प्रतियोगिजातीयाधिकर णक्षणावृत्तित्वमिति यावत् । श्रथेदानीन्तनमुक्रावव्याप्तिरत उतमात्मन इत्यादि, तथा च (१) स्वाधिकरणत्मवृत्तिदुःखाधिकरणक्षणावृत्तिः स्वाश्रयसमवेतदुःखाधिकरण क्षणवृत्तिभिन्नो वा दुःखध्वंसो मोन इति पर्यवसितोऽर्थः ।
केचित्तु यद्यपि दुःखात्यन्ताभाववत्त्वं अवच्छेदभेदेन दुःखसत्त्वेऽपि सुषुप्तौ स्वर्गित्वे चाऽस्ति तथापि चरमदुःखध्वंसादिप्रत्यासत्त्या स्वौयदुःखतत्प्रागभावानधिकरणकालावच्छेदेन वा तद्वत्त्वं तथेति प्राहुः । नवेद्यत्वादिति । यदाज:
दुःखाभावोऽपि नावेद्यः पुरुषार्थतयेय्यते ।
स्वरूपत एव
न हि मूर्द्धाद्यवस्थार्थं प्रवृत्तो दृश्यते सुधीः ॥ इति दुःखम्य निसर्गप्रतिकूल स्वभावतया तदभावस्य काम्यत्वमित्याह । दुःखार्तानामिति । किमत्रेति । विवेकिनामपि दुःखार्तानां सुषुप्तिका मनायाः प्रामाणिकत्वादित्यपि द्रष्टव्यम् । तर्हि विवेकिनोऽपि दुःखार्ता निषिद्धमपि देहत्यागमाचरेयुरित्यत आह ।
(१) स्वाश्रयसमवेतेति १५० पा० ।
For Private and Personal Use Only