________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रात्मतत्त्वविवेके मौके
निवृत्ती फलम् । न तु भूतार्थम्य तत्फलमित्याह । किमिति । किं तेनेति । निष्प्रयोजनकप्रतिपत्तिजनकम्य रथ्यापुरुषवाक्यवदनादेयत्वादिति भावः । प्रयोजनमाह । यथायथमिति। वायुर्वै क्षेपिष्ठा देवतेत्यादौनामुपादानं फलम् । अन्धं तमः प्रविशन्ति ये के चात्महनो जना इत्यादौनां हानं फलम् । उपनिषड्भागस्य च मोक्षःफल मित्यर्थः ।
रघु० टी० । श्राद्यव्युत्पत्ती व्यवहारात् कार्यान्विते शब्दानां शक्त्यवधारणात् सिद्धार्थानामनुभावकत्वमेव नास्ति दूरे तद्विशेषप्रमाणत्वमित्याशयेनाशङ्कते। कथमिति। चरमो नियमः । पदार्थमात्रात्यैव कार्यताबोधकशब्दममभिव्याहारादिवशात् कार्यान्वितबोधजनकत्वोपपत्तौ न विशिष्टशकिकल्पनमित्याशयेन शङ्कां निरस्यति । महाजनेत्यादि। कर्तव्यत्वाद्यबोधकम्य सिद्धार्थस्य न प्रवर्तकवादिसम्भव इत्याशयेन पृच्छति । किमिति। उत्तरयति । स्वार्थति। सर्वस्य सिद्धार्थस्य माक्षात् स्वार्थप्रतिपादनं फलं तद्वारा च यथायथमुपादानादि। “सर्व पाभानं तरति”, “तरति ब्रह्महत्यां योऽश्वमेधेन यजत" इत्यादेरुपादानं, “ अन्धं तमः प्रविशन्ति ये के चात्महनो जना” इत्यादेश्च हानं, आत्मोपनिषदां च मोक्षः । तासां च तात्पर्यनिर्णायनेन न्यायाः साहायकमाश्रयन्ते। तत्त्वज्ञानादिति च सर्वत्र सम्बयते। दृष्टानिष्टसाधनत्वज्ञानयोः प्रवर्तकत्वनिवर्तकत्वे लोकतः सिद्धे आत्मतत्त्वज्ञानस्य मोक्षहेतुत्वं तमेव विदित्वातिमृत्यमेतत्यादेः, आत्मा वा अरे मैत्रेयि द्रष्टव्यः श्रोतव्य इत्यादेश्च वेदरागेरिति ।
For Private and Personal Use Only