________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
८१३
रपि सत्यादिशालिभिर्यदाक्यं जपादिना फलदायकमभिधीयते तदेवास्मदादौनां तपःप्रभावात्तथाभूतं सत् फलमादधाति तपसामसामर्थ्य महर्षीणमेव कुतः शापानुग्रहलमता परितृप्तायामेव च देवतायां यत्र यस्य श्रद्धा सम्पद्यते तस्मिन्विषये श्रद्धावशानिरन्तरमुत्पद्यमानायां चिन्तायां चित्तस्थैर्य जायते चित्तस्थैर्यातिरिकं च न देवतापरिचिन्तनप्रयोजनं । वास्तवत्वे तु देवतानामेकस्या एव तस्याः क्वचिच्चतुर्भुजत्वाभिधानं, कचिदष्टभुजत्वाद्यभिधानं, तौर्थिकानां कथं न विरुद्यते इति। दुरूहात्-दुरूहणादित्यर्थः। एकत्यादि । सिद्धप्रमाणभावानां वेदानां विरोधादप्रामाण्यधौव्येऽनन्यगतिकवादौदृशौकल्पनेति भावः । उपसंहरति । तस्मादिति । भूतार्थः सिद्धार्थकः । वेदा एवेति नियमेन पाषण्डागमप्रामाण्यस्य, प्रमाणमेवेत्यनेन च एकदेशाप्रामाण्यस्य निरासः ।
कथं चरम इति चेत् ! महाजनपरिग्रहस्य तत्साध्यस्य वा सर्वज्ञपूर्वकत्वस्य पुरुषदोषाभावस्य वा प्रामाण्यहेतोभूतभाव्यार्थभागयोः साधारणत्वात्। किं तस्य फलमिति चेत् ! स्वार्थप्रतिपादनं, किं तेन प्रयोजनं! यथायथमुपादानं हानं मोक्षश्च । तत्रानर्थहेतूनां तत्त्वज्ञानावानं अर्थहेतूनामुपादानं आत्मनो मोक्ष इति ॥ __ शङ्क० टौ० । ननु प्रमाणमेवेत्ययोगव्यवच्छेदपरेणैवकारेण सकलवेदप्रामाण्यमभिधीयते । न चैतद्यकम् । अर्थवादानामप्रमाणावादित्याशङ्कते । कथमिति । किं तस्येति । भाव्यार्थस्य प्रवृत्ति
115
For Private and Personal Use Only