________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
૨૫
कः पुनग्यं मोक्षः ! आत्यन्तिको दःखनित्तिरात्मनः । किमात्यन्तिकत्वं! तज्जातीयात्यन्ताभावविशिष्टत्वं । तेषामभावः कथं! कारणमात्रोच्छेदात। अपुरुषार्थोऽयमिति चेत् । न । असत्यस्याकाम्यस्याशक्यस्य दरन्तस्य तथाभावात्। नत्वयं तथा। सत्योऽयं, प्रमाणमिद्दत्वात्। मवैरभ्युपगमात्। काम्यश्च, दःखस्य स्वभाव हेयत्वात्। सुखार्थं तहानमिति चेत् । न । अतहेतुत्वात्। व्याप्तेरिति चेत् । न। असिद्धेः । न हि दःखाभावः सुखेन व्याप्यत इति। सुखं तावत्तेन व्याप्यत इति चेत् ! तर्हि सुखे सत्यवश्यं दःखाभावो भवेदिति सुखप्रार्थनेति विपरौतापत्तिः । नावेद्यत्वादसौ काम्य इति चेत् । न। दुःखार्तानां तदभाववेदनमनभिसन्धायैव तजिहासादर्शनात् । कथमन्यथा देहमपि जयः। अविवेकिनस्त इति चेत् ! किमत्र विवेकेन, इष्यमाणतामाबानुबन्धित्वात् पुरुषार्थत्वस्य गम्यागम्ययोः (१)कामवत् । बहुतरानर्थप्रसक्तिशङ्कया शास्त्रमनुकूलयन्तस्त इतरेभ्यो भिद्यन्ते । अपि चैवं कण्टकादिजन्यदःखनित्तिरपि पुरुषार्थो न स्यात् । अवेद्यत्वात् । प्रथमं विद्यते तावदमाविति चेत् ! तुल्यं मोक्षेऽपि । नाध्यक्षेणेति चेत् ।
(१) काम्यत्ववदिति १ पु० पा० ।
For Private and Personal Use Only