Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६०४
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
बुद्धवत् पितृत्वेनाविप्रलम्भकत्वमुञ्चावचभूतनिर्माणदर्शनेन सार्वज्यमनुमायाऽऽप्तत्वनिश्चयस्तस्य तेषाम् ।
या भगवानेव संप्रदायप्रवर्तनव्यसनव्यग्रः कायसहस्राणि व्युत्पाद्यव्युत्पादकभावव्यवस्थितानि निर्माय तदातनं महाजनं परिग्राहितवान्, नटनोपाध्याय इव स्वयं नटित्वेति सर्वं सुस्थम् । पाचयेऽप्यच पुराणादिसंकथाप्यस्तौति ।
शङ्क० टौ० । ननु सन्तु तदानों महाजनास्तेस्तस्य परिग्रहः कथमित्यत श्राह । तदैवमिति । स एवेति । या तोकत्वनिश्चय varaर्थ: । अध्यक्षत दूति । वेदप्रयोक्कुर्यथार्थवाक्यार्थज्ञानवत्त्वमाप्तत्वं मन्वादिभिः प्रत्यक्षेणैव न दूत्यर्थः । ननु परकौयं ज्ञानं कथं तेषां प्रत्यक्षमत श्राह । तेषामिति । ननु तेऽपि चेत् सर्वज्ञा एव तदा स्वयमेव धर्माधर्मौ साक्षात्य व्यवहरन्तु किमिति वेद परिग्टहन्तीत्याशङ्कते । तादृशामिति । श्रस्माभिश्चेद्वेदार्थोऽनुष्ठीयते चास्मादपत्यान्यपि श्रनुतिष्ठन्तीति तदृष्टान्तेनान्येऽपौति भूतदया, तत्परिग्रह हेतुरिति शेषः । स्वाधिकारेति । ईश्वरेऐव वेदं प्रणीय तत्परिग्रहे मन्वादयोऽधिकारिणः कृता दूत्यर्थः ।
तथा
ननु मन्वादीनां सार्वज्ञ्ये प्रमाणं नास्तीत्यनुशयेनाह । अथवेति । ईश्वरो न विप्रलम्भकः पितत्वात् यो यस्य पिता स तं न विप्रलभत इति प्राग्भवौयसंस्काराधौनव्याप्तिस्मृतिबला सदाप्तवानु-मानं तेषामित्यर्थः । ननु नाविप्रलम्भकत्वमात्रमाप्तत्वं किं तु यथार्थज्ञानवत्त्वमपीत्यत श्राह । उच्चावचेति । उच्चावचमनेकविधं चित्यादि, तत्कर्तत्वानुमानान्तर्गतैव सार्वज्यसिद्धिरित्युक्रमेवेत्यर्थः ।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966