SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः। केचित प्राणिनां कर्मणामनन्तत्वात्कथं युगपहृत्तिनिरोध इत्यत आह । कर्मणामिति । एवम्वभावत्वात्-अनन्तत्वेऽपि सुषुप्तिवत् कदाचिन्निरुद्धवृत्तिकम्वभावत्वात् । एतदर्थ कर्मणां वृत्तिलाभयुगपहृत्तिनिरोधख्यापनार्थमित्याः । यद्यप्यपदर्शितानुमानमप्रयोजकं, गगनादिवृतिध्वंसप्रतियोग्यउत्तिद्रव्यत्वं कार्यद्रव्यानधिकरणप्रागभावाधिकरणवृत्तिध्वंसप्रतियोगित्ति इदानीन्तनकार्यसमवेतत्वात्, अनादितावच्छेदकत्वाद्वा । गगनादिवृत्तिप्रागभावाप्रतियोग्ययं घटः कार्यद्रव्यानधिकरणवृत्तिप्रागभावप्रतियोगी कार्यत्वात् सुखादिवदित्यादिकमपि तथा । तथापि मर्गप्रलयबोधकागमानुरुद्धृत्वान्न दोषः । ननु सर्गादावौश्वरेण प्रणीतानां वेदानां तदानौं महाजनविरहेण (१)क्व परि-- ग्रहावसर इत्यागङ्गां निरम्य नपसंहरति । तम्मा दिति । तदैवं कथं मन्वादिभिः परिगृह्यन्तां वेदा इति चेत् ! आयुर्वेदवदाप्तोक्तत्वनिश्चयात् । स एव कुत इति चेत् ! अध्यक्षतः, तेषामप्यतीन्द्रियार्थदर्शित्वात् । तादृशां तेषां तत्परिग्रहेण किं प्रयोजनमिति चेत् ! अम्मद्यवहारेणास्मदपत्यादि व्युत्पद्यताम्, तथा च धर्मसंप्रदायः प्रवर्ततामिति भूतदया, स्वाधिकारसम्पादनं च। अथवा मर्गान्तरगृहीतव्याप्तिप्रादुर्भावे सुप्तप्रति (१) कुत इति १ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy