________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
८५७
अपनेयेति । अपनेयम्त्याज्यो वृक्षादिः । अपगन्ता खगादिः । नदवधित्वात् । विभागावधित्वात्(१) । स्वभिन्नकर्टकत्यागजन्यविभागाश्रय एव च विभागावधिः, अपादानञ्च त्यकरि खगादाववध्या दिव्यवहारविरहात् । करणीभूतेति । करणीभूतेन कर्मणा उपहितं कर्मण: करणोपहितत्वात् करणस्य कर्बुपहितत्वात्तदुपहितस्य संप्रदेयस्य कर्दघटितत्वमिति भावः । तदभिप्रेयत्वात् । तेन कर्मणा देयद्रव्येन दातुरभिप्रेतत्वात् । तया च पाणिनिमूत्रम् । कर्मणा यमभिप्रेति स सम्प्रदानमिति । अत्र कर्मणेति हतौयया करणत्वं प्रत्याय्यते । त्यकुम्त्यज्यमानस्वत्वभागित्वेनोद्देश्यत्वमपि चेतनोपहितमेव त्यागविशेषश्चात्र ग्राह्यः, क्रेतरि सम्प्रदानव्यवहारविरहात् । तद्व्याप्यत्वात् तझ्यापारविषयत्वात् । साक्षादिति, कर्मव्यवच्छेदाय । ननु साक्षात्कर्तव्यापार्य करणं करणयाप्यं कर्म कर्मप्रयोजकश्च कति चक्रकं, एवं माक्षात्कर्तव्यापायं करणं करणप्रयोका च कर्तेति अन्योन्याश्रय इत्यत आह । ज्ञानचिकौर्षत्यादि । ननु ज्ञानादिमतः कार्यमा प्रति जनकत्वस्यामिद्धौ तहटितमूर्तिकस्य कारकविशेषस्थापि न तथात्वं सर्व च कारकं न चेतनोपहितं, तथाहि परम्परया क्रियाश्रयत्वमधिकरणत्वम् । परकौयक्रियाजन्यविभागाश्रयत्वमेवापादानत्वम् । अत एव वृक्षात् पर्ण पततोत्यादावपि वृक्षादेरपादानत्वं विभागावधित्वमेवापादानत्वं अवधित्वं च सम्बन्धविशेषः स च क्वचिदेवानुभवबलादित्यपि केचित् ।
(१) तादृश विभागावधित्वादिति २।३ पु० प० । 18
For Private and Personal Use Only