Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 887
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके सटौके कुत एवमित्यत आह । नहौति। जनकस्त्रौत्वं मादत्वमजनकस्त्रौत्वं च वन्ध्यात्वमत्र जनकत्वाजनकत्वयोर्यथा परस्परविरहरूपत्वं न तथा प्रकृत इत्यर्थः । कथं न तथा प्रकृत इत्यत आह । अचेतनानामिति । अचेतनानां नित्यत्वाभाववतां घटपटादौनां चेतनत्वप्रसङ्गो ज्ञानवाधिकरणत्वप्रसङ्ग इत्यर्थः । ननु परस्परविरहाक्षेपकत्वं विरोधोऽस्त्वित्यत आह नापौति । नित्यमपि भवतु ज्ञानं चेति विपक्ष बाधकमिह नास्तीत्यर्थः । ननु यद्यज्ञानं तत्सर्वमनित्यमेव दृश्यते यच्च नित्यं तन ज्ञानात्मकं दृश्यते तथा च नित्यं ज्ञानमित्यपि व्याहतमित्यत आह । दर्शनेति । नित्यमनित्यं वा यदर्थप्रवण(२) तदेवज्ञानं न तु दर्शनादर्शने तन्त्रमित्यर्थः । तथा च विवादाध्यासितं न ज्ञानं नित्यत्वादाकाशवदित्यत्रार्थाप्रवणत्वमुपाधिः । विवादाध्या मितं ज्ञानमनित्यं ज्ञानत्वान्मतवदित्यत्र जन्यत्वमुपाधिः, धर्मिग्राहकमा २)नाबाधो वेति भावः । रूपत्वेति । अन्यथा यवपं तदनित्यमेवेति व्याश्या जलपरमाणुरूपं न सिध्येत् । तत्र सहचारदर्शनव्यभिचारादर्शने चक्षुर्मात्रयाह्यव्यतित्वौपाधिके यथा, तथा प्रकृतेऽपौत्यर्थः । ग्राह्यत्वमिह ग्रहणयोग्यत्वं । नन्विन्द्रियादिविकारव्यंग्यत्वनिवृत्या तत्र ज्ञानत्वं निवर्ततामत श्राह । न चेति । अर्थप्रवणत्वमर्थनिरूपणाधौननिरूपणत्वं स्वरूपसंबन्धेन सविषयत्वं वा इच्छादौ तु विषयेण न स्वरूपसंबन्धः किंतु ज्ञानमेव संबन्ध इति भावः । तस्येति । इन्द्रियविकारमात्रस्यार्थप्रवणत्वनिरपेक्षस्य ज्ञानत्वा भिव्यञ्जकत्वे सुखादीनामपि ज्ञानत्वप्रसङ्ग इत्यर्थः । (१) यदर्थप्रधानं २ पु० पा० । (२) मानाभावो वेति २ पु० पा० । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966