________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
कुत एवमित्यत आह । नहौति। जनकस्त्रौत्वं मादत्वमजनकस्त्रौत्वं च वन्ध्यात्वमत्र जनकत्वाजनकत्वयोर्यथा परस्परविरहरूपत्वं न तथा प्रकृत इत्यर्थः । कथं न तथा प्रकृत इत्यत आह । अचेतनानामिति । अचेतनानां नित्यत्वाभाववतां घटपटादौनां चेतनत्वप्रसङ्गो ज्ञानवाधिकरणत्वप्रसङ्ग इत्यर्थः । ननु परस्परविरहाक्षेपकत्वं विरोधोऽस्त्वित्यत आह नापौति । नित्यमपि भवतु ज्ञानं चेति विपक्ष बाधकमिह नास्तीत्यर्थः । ननु यद्यज्ञानं तत्सर्वमनित्यमेव दृश्यते यच्च नित्यं तन ज्ञानात्मकं दृश्यते तथा च नित्यं ज्ञानमित्यपि व्याहतमित्यत आह । दर्शनेति । नित्यमनित्यं वा यदर्थप्रवण(२) तदेवज्ञानं न तु दर्शनादर्शने तन्त्रमित्यर्थः । तथा च विवादाध्यासितं न ज्ञानं नित्यत्वादाकाशवदित्यत्रार्थाप्रवणत्वमुपाधिः । विवादाध्या मितं ज्ञानमनित्यं ज्ञानत्वान्मतवदित्यत्र जन्यत्वमुपाधिः, धर्मिग्राहकमा २)नाबाधो वेति भावः । रूपत्वेति । अन्यथा यवपं तदनित्यमेवेति व्याश्या जलपरमाणुरूपं न सिध्येत् । तत्र सहचारदर्शनव्यभिचारादर्शने चक्षुर्मात्रयाह्यव्यतित्वौपाधिके यथा, तथा प्रकृतेऽपौत्यर्थः । ग्राह्यत्वमिह ग्रहणयोग्यत्वं । नन्विन्द्रियादिविकारव्यंग्यत्वनिवृत्या तत्र ज्ञानत्वं निवर्ततामत श्राह । न चेति । अर्थप्रवणत्वमर्थनिरूपणाधौननिरूपणत्वं स्वरूपसंबन्धेन सविषयत्वं वा इच्छादौ तु विषयेण न स्वरूपसंबन्धः किंतु ज्ञानमेव संबन्ध इति भावः । तस्येति । इन्द्रियविकारमात्रस्यार्थप्रवणत्वनिरपेक्षस्य ज्ञानत्वा भिव्यञ्जकत्वे सुखादीनामपि ज्ञानत्वप्रसङ्ग इत्यर्थः ।
(१) यदर्थप्रधानं २ पु० पा० । (२) मानाभावो वेति २ पु० पा० ।
For Private and Personal Use Only